________________
Jain Educatio
मार्गणा तत्समासकः ॥ ३० ॥ संपूर्णगत्यादिद्वारे, जीवादेर्मार्गणा तु या । प्रतिपत्तिरियं जीवाभिगमे दृश्यतेऽधुना ॥ ३१ ॥ सत्पदप्ररूपणाद्यनुयोगद्वारमुच्यते । प्राभृतान्तःस्थोऽधिकारः, प्राभृतप्राभृतं भवेत् ॥ ३२ ॥ वस्त्वन्तर्वर्त्त्यधिकारः, प्राभृतं परिकीर्त्तितम् । पूर्वान्तर्वर्त्यधिकारो, वस्तुनाम्ना प्रचक्षते ॥ ३३॥ पूर्वमुत्पादपूर्वादि, ससमासाः समेऽप्यमी । श्रुतस्य विंशतिर्भेदा । इत्थं संक्षेपतः स्मृताः ॥ ३४ ॥ इति श्रुतज्ञानम् ॥
अवधानं स्यादवधिः, साक्षादर्धविनिश्चयः । अवशब्दोऽव्ययं यद्वा सोऽधः शब्दार्थवाचकः ॥ ३५ ॥ अधोऽधो विस्तृतं वस्तु, धीयते परिबुध्यते । अनेनेत्यवधिर्यद्वा, मर्यादावाचकोऽवधिः ॥ ३६ ॥ मर्यादा रूपिद्रव्येषु, प्रवृ| तिर्न स्वरूपिषु । तयोपलक्षितं ज्ञानमवधिज्ञानमुच्यते ॥ ३७ ॥ अनुगाम्यननुगामी, वर्धमानस्तथा क्षयी । प्रतिपात्यप्रतिपातीत्यवधिः षड्विधो भवेत् ॥ ३८ ॥ यद्धि देशान्तरगतमप्यन्वेति खधारिणम् । अनुगाम्यवधिज्ञानं, तद्विज्ञेयं खनेत्रवत् ॥ ३९ ॥ यत्र क्षेत्रे समुत्पन्नं, यत्तत्रैवावबोधकृत् । द्वितीयमवधिज्ञानं, तच्छृङ्खलितदीपवत् ॥ ४० ॥ यदङ्गुलस्या संख्येयभागादिविषयं पुरा । समुत्पद्यानु विषयविस्तारेण विवर्धते ॥ ४१ ॥ अलोके लोकमात्राणि, यावत्खण्डान्यसंख्यशः । स्यात्प्रकाशयितुं शक्तं, वर्द्धमानं तदीरितम् ॥ ४२ ॥ अप्रशस्ताध्यवसायात्, हीयते यत्प्रतिक्षणम् । आहुस्तदवधिज्ञानं, हीयमानं मुनीश्वराः ॥ ४३ ॥ स्याद्वर्द्धमानं शुष्कोपचीयमानेन्धनाग्निवत् । हीयमानं परिमितातादृगिन्धनवह्निवत् ॥ ४४ ॥ योजनानां सहस्राणि संख्येयान्यप्य१ अपिना तद्व्यादिपरिग्रहः २अलोके रूपिद्रव्याभावाद् दृश्याभावेऽपि लोके द्रव्यादिकस्य साक्ष्म्येण ज्ञानवृद्धिसाफल्यम्, स्वभावादेव नामतः
tional
For Private & Personal Use Only
१०
१३
ainelibrary.org