SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ स्यरष्टादश ताः पुनः॥६॥ अपूर्णदशपूर्वान्तमपि सम्यक् श्रुतं भवेत् । मिथ्यात्विभिः संगृहीतं, मिथ्या-15 श्रुतं विपर्ययात् ॥७॥ द्रव्यक्षेत्रकालभावैः, साद्यन्तं भवति श्रुतम् । अनाद्यपर्यवसितमपि ज्ञेयं तथैव च ॥ एकं पुरुषमाश्रित्य, साद्यन्तं भवति श्रुतं । अनाद्यपर्यवसितं, भूयसस्तान प्रतीत्य च ॥९॥ भवान्तरं गतस्याशु, पुंसो यन्नश्यति श्रुतम् । कस्यचित्तद्भव एच, मिथ्यात्वगमनादिभिः ॥१०॥ तदुक्तं विशेषावश्यके"चउदसपुवी मणुओ, देवत्ते तं न संभरइ सबं । देसंमि होइ भयणा, सहाणभवेवि भयणा उ॥१॥"देशे पुनरेकादशाङ्गलक्षणे इति कल्पचूर्णिः । स्वस्थानभव इति मनुष्यभवेऽपि तिष्ठतो भजना ॥ तत्र श्रुतज्ञाननाशकारणान्यमूनि-मिच्छभवंतरकेवलगेलन्नपमायमाइणा नासोत्ति' षष्ठाङ्गचतुर्दशाध्ययने तु तेतलिमन्त्रिणः पूर्वाधीतचतुर्दशपूर्वस्मरणमुक्तमस्तीति ज्ञेयम् । साद्यन्तं क्षेत्रतो ज्ञेयं, भरतैरवताश्रयात् । अनाद्यपर्यवसितं, विदेहापेक्षया पुनः ॥११॥ कालतश्चावसर्पिण्युत्सर्पिण्योः सादिसान्तकम् । महाविदेहकालस्यापेक्षयाद्यन्तवर्जितम् ॥ १२॥ भवसिद्धिकमाश्रित्य, साद्यन्तं भावतो भवेत् । छाझस्थिकज्ञाननाशो, यदस्य केवलक्षणे ॥१३॥'नटुंमि य छाउमथिए नाणे' इति वचनात् । अनाद्यनन्तं चाभव्यमाश्रित्य श्रुतमुच्यते । श्रुतज्ञानश्रुताज्ञानभेदस्यानाविवक्षणात् ॥ १४॥क्षायोपशमिकभावे, यद्वाऽनाद्यन्तमीरितम् । एवं साद्यानादि-ISH सान्तमनन्तं श्रुतमूह्यताम् ॥ १५॥ गमाः सदृशपाठाः स्युर्यत्र तद्गमिकं श्रुतम् । तत्प्रायो दृष्टिवादे स्यादन्य १ देवत्त्वे पूर्वाणामस्मरणमिति चूर्णिवचसस्तत्त्वं, तेतली तु नरः, तस्य जातिस्मृत्या पूर्वज्ञाने का हानिः ? । W Jain Educati o nal For Private Personel Use Only INw.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy