SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ग्राहि, तत्स्यात् श्रुतमनक्षरम् ॥ ८५॥ इह च शिर कम्पनादिचेष्टानां पराभिप्रायज्ञानहेतुत्वे सत्यपि श्रवणाभावान्न श्रुतत्वं, तदुक्तं विशेषावश्यकसूत्रवृत्तौ "रुढीइ तं सुअं सुबइत्ति चेट्टा न सुबह कयावि"त्ति । उक्तन्यायेन श्रुतत्वप्राप्तौ समानीतायामपि तदेवोच्चसितादि श्रुतं न शिरोधूननकरचालनादिचेष्टा, यतः शास्त्रज्ञलोकप्रसिद्धा रूढिरियमिति । कर्मग्रन्थवृत्तौ तु शिरःकम्पनादीनामप्यनक्षरश्रुतत्वमुक्तं, तथा च तद्ग्रन्थ:-अन-1 क्षरश्रुतं श्वेडितशिर कम्पनादिनिमित्तं मामाह्वयति वारयति वेत्यादिरूपमभिप्रायपरिज्ञानमिति । स्याद्दीर्घकालिकी संज्ञा, येषां ते संज्ञिनो मताः। श्रुतं संज्ञिश्रुतं तेषां, परं त्वसंज्ञिकश्रुतम् ॥८६॥ सम्यक्श्रुतं जिनप्रोक्तं, भवेदावश्यकादिकम् । तथा मिथ्याश्रुतमपि, स्यात्सम्यग्हकपरिग्रहात् ॥ ८७॥ आवश्यकं तदपर|मिति सम्यक श्रुतं द्विधा । षोढा चावश्यकं तत्र, सामायिकादिभेदतः॥८८॥ तथाहि-सामाइयं चउवीसत्थओ वंदणयं पडिक्कमणं काउसग्गो पचकखाणं इति । आवश्यकेतरचाङ्गानगात्मकतया द्विधा । अङ्गान्येकादश दृष्टिवादश्चाङ्गात्मकं भवेत् ॥ ८९॥ आचाराङ्गं सूत्रकृतं, स्थानाङ्गं समवाययुग । पञ्चमं भगवत्यङ्गं, ज्ञाताधर्मकथापि च ॥९०॥ उपासकान्तकृदनुत्तरोपपातिकाद्दशाः । प्रश्नव्याकरणं चैव, विपाकश्रुतमेव च ॥९१ ॥ परिकर्म १ सूत्र २ पूर्वानुयोग ३ पूर्वगत ४ चूलिकाः ५ पञ्च । स्युर्दृष्टिवादभेदाः, पूर्वाणि चतुर्दशापि पूर्वगते ॥ ९२ ॥ गीतिः। तानि चैवम्-उत्पादपूर्वमग्रायणीयमथ वीर्यतः प्रवादं स्यात् । अस्तानात्सत्त्वात्तदा| १ संज्ञाव्यञ्जनाक्षरोपयोगाभावेऽपि विवक्षारूपभावश्रुतज्ञानोत्पत्तेः, श्रवणरूढेस्तु व्युत्पत्त्यङ्गतयैवोपयोगात् Jain Educa t ional For Private & Personal Use Only RAMjainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy