________________
लोक. द्रव्य. ३ सर्गः
॥ ५० ॥
Jain Educatio
॥ ७४ ॥ सम्यक् श्रुतं पञ्चमं स्यात्, षष्ठं मिध्याश्रुतं भवेत् । सादिश्रुतं सप्तमं स्यादनादिश्रुतमष्टमम् ॥ ७५ ॥ सान्तश्रुतं तु नवममनन्तं दशमं श्रुतम् । एकादशं गमरूपमगमं द्वादशं पुनः ॥ ७६ ॥ त्रयोदशं त्वङ्गरूपमङ्गबाह्यं चतुर्द्दशम् । प्रायो व्यक्ता अमी भेदास्तथापि किञ्चिदुच्यते ॥ ७७ ॥ तत्राक्षरं त्रिधा संज्ञाव्यञ्जनलब्धिभेदतः । तत्र संज्ञाक्षरमेता लिपयोऽष्टादशोदिताः ॥ ७८ ॥ तथाहि - हंसलिवी १ भूअलिबी २ जक्खा ३ तह रक्खसी ४ य बोद्धव्वा । उड्डी ५ जवणि ६ तुरक्की ७ कीरा ८ दविडी ९ य सिंघविआ १० ॥ १ ॥ मालविणी ११ नडि १२ नागरि, १३ लाडलिवी १४ पारसी १५ य बोद्धवा । तह अनिमित्ती अलिवी १६, चाणक्की १७ मूलदेवी १८ य ॥ २ ॥ अकारादिहकारान्तं भवति व्यञ्जनाक्षरम् । अज्ञानात्मकमप्येतद् द्वयं स्यात् श्रुतकारणम् ॥ ७९ ॥ ततः श्रुतज्ञानतया, प्रज्ञप्तं परमर्षिभिः । लब्ध्यक्षरं त्वक्षरोपलब्धिरर्थावबोधिका ॥ ८० ॥ तच्च लब्ध्यक्षरं षोढा, यत् श्रोत्रादिभिरिन्द्रियैः । बोधोऽक्षरानुविद्धः स्याच्छन्दार्थालोचनात्मकः ॥ ८१ ॥ यथा शब्दश्रवणतो, रूपदर्शनतोऽथवा । देवदत्तोऽयमित्येवंरूपो बोधो भवेदिहं ॥ ८२ ॥ एवं शेषेन्द्रियभावना कार्या ॥ तैरक्षरैरभिलाप्यभावानां प्रतिपादकम् | अक्षरश्रुतमुद्दिष्टमनक्षरश्रुतं परम् ॥ ८३ ॥ तथोक्तम् - ऊससिअं नीससिअं, निच्छूढं खासिअं च छीअं च । निस्संधिअमणुसारं अणक्खरं छेलियाईयं ॥ ८४ ॥ अयं भावः - कासितक्ष्वेडितायं यन्मामाह्वयति वक्ति वा । इत्याद्यन्याशय - १ स्वातन्त्र्येण लक्षितमिदं, संज्ञाव्यञ्जनाक्षरोत्पन्नमपि तथा २ बालक्रीडापनशब्दादि
ional
For Private & Personal Use Only
श्रुतभेदाः
१५
२०
॥ ५० ॥ २५
inelibrary.org