________________
श्रूयते तत् श्रुतं शब्दः, स श्रुतज्ञानमुच्यते । भावश्रुतस्य हेतुत्वाद्धेतौ कार्योपचारतः ॥ ६४॥ श्रुताच्छब्दादुत ज्ञानं, श्रुतज्ञानं तदुच्यते।श्रुतग्रन्थानुसारी यो, बोधाश्रोत्रमनःकृतः॥६५॥ ननु श्रुतज्ञानमपि श्रोत्रेन्द्रियनिमित्तकम् । तन्मतिज्ञानतः कोऽस्य, भेदो? यत्कथ्यते पृथक् ॥६६॥ अत्रोच्यते-वर्तमानार्थविषयं, मतिज्ञानं परं ततः। गरीयोविषयं त्रैकालिकार्थविषयं श्रुतम् ॥६७॥ विशुद्धं च व्यवहितानेकसूक्ष्मार्थदर्शनात् । छद्मस्थोऽपि श्रुतबलादुच्यते श्रुतकेवली ॥१८॥ तदुक्तं-"न य णं अणाइसेसी, वियाणइ एस छउमत्थो"त्ति ॥ जीवस्य ज्ञवभावत्वान्मतिज्ञानं हि शाश्वतम् । संसारे भ्रमतोऽनादौ, पतितं न कदापि यत् ॥६९॥ अक्षरस्थानन्तभागो, नित्योद्घाटित एव हि । निगोदिनामपि भवेदित्येतत्पारिणामिकम् ॥ ७॥ यदागमः"सचजीवाणं पिअ णं अक्खरस्स अणंतभागो निचुग्घाडिओ चिट्ठइ, जइ सोवि आवरेज्जा ता जीवो अजीवत्तणं पावेजा” इति ॥ श्रुतज्ञानं पुर्नेनैवं, भवेज्जीवस्य सर्वदा । आप्तोपदेशापेक्षं यत्, स्यादेतन्मतिपूर्वकम् ॥७॥ मतिज्ञानं स्पर्शनादीन्द्रियानिन्द्रियहेतुकम् । श्रुतं तु स्याल्लन्धितोऽपि, पदानुसारिणामिवे ॥७२॥ इत्यायधिकं तत्त्वार्थवृत्त्यादिभ्योऽवसेयं । चतुर्दशविधं तच, यद्वा विंशतिधा भवेत् । चतुर्दशविधत्वं तु, तत्रैवं परिभाव्यते ॥७३॥ अक्षरश्रुतमित्येकं, स्याद् द्वितीयमनक्षरम् । तातीयीकं संज्ञिश्रुतं, तुर्य श्रुतमसंज्ञिन:
१ यत इत्याध्यहार्यम्. २ अवधिज्ञानादिविकल: ३ श्रुतज्ञानरूपस्य केवलस्योभयस्य वा ४ श्रुताक्षरस्यानन्तभागसत्वेऽपि औपदेशिकश्रुतभावापेक्षया. ५ औत्पत्तिक्यादौ अनिश्रितादौ च मतिभेदे एवं भावः, परचित्तज्ञानाद्यपि तत्र लब्धिभूतं ।
3000209999999999
१०
Jain Educa
t ional
For Private Personal Use Only
M.jainelibrary.org