________________
य एकदा भूयो, नोपदेशमपेक्षते । ध्रुवग्राही भवेदेष, तदन्योऽध्रुवविद्भवेत् ॥४६॥ नन्वेकसमयस्थायी, प्रोक्तः प्राच्यैरवग्रहः। संभवन्ति कथं तत्र, प्रकारा बहुतादयः? ॥४७॥ सत्यमेतन्मतः किंतु, द्विविधोऽवग्रहः श्रुते । निश्चयात्क्षणिको व्यावहारिकश्वामितक्षणः ॥४८॥ अपेक्ष्यावग्रहं भाव्यास्ततश्च व्यावहारिकम् । भेदा यथोक्ता बहुतायो नैश्चयिके तु न ॥४९॥ तथोक्तं तत्त्वार्थवृत्तौ-ननु चावग्रह एकसामयिकः शास्त्रे निरूपितो, न चैकस्मिन् समये चैवैकोऽवग्रह एवंविधो युक्तोऽल्पकालत्वादिति, उच्यते, सत्यमेवमेतत्, किंतु अवग्रहो द्विधानैश्चयिको व्यावहारिकश्च, तत्र नैश्चयिको नाम सामान्यपरिच्छेदः, स चैकसामयिकः शास्त्रेऽभिहितस्ततो नैश्चयिकादनन्तरमीहैवमात्मिका प्रवर्तते-किमेष स्पर्श! उतास्पर्श इति, ततश्चानन्तरोऽपाय:स्पर्शोऽयमिति, अयं चापायोऽवग्रह इत्युपचर्यते, आगामिनो भेदानङ्गीकृत्य यस्मादेतेन सामान्यमवच्छिद्यते, यतः पुनरेतस्मादीहा प्रवर्तिष्यते कस्यायं स्पर्शस्ततश्चापायो भविष्यत्यस्यायमिति, अयमपि चापायः पुनरवग्रह इत्युपचयंते, अतोऽनन्तरवर्तिनीमीहामपायं चाश्रित्य, एवं यावदस्यान्ते निश्चय उपजातो भवति, यत्रापरं विशेषं नाकाङ्क
तीत्यर्थः, अपाय एव भवति, न तत्रोपचार इति, अतो य एष औपचारिकोऽवग्रहस्तमङ्गीकृत्य बहु अवIN गृहातीत्येतदुच्यते, नत्वेकसमयवतिनं नैश्चयिकमित्येवं सर्वत्रौपचारिकाश्रयणायाख्येयमिति ॥ SM औत्पत्तिकी वैनयिकी, कार्मिकी पारिणामिकी । आभिः सहामी भेदाः स्युश्चत्वारिंशं शतत्रयम् ॥४९॥
न दृष्टो न श्रुतश्च प्राग, मनसाऽपि न चिन्तितः। यथार्थस्तत्क्षणादेव, यथार्थो गृह्यते धिया ॥५०॥ लोक-1|| १४
Jain Education
For Private
Personal Use Only
dinelibrary.org