SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ तु षोढा श्रोत्रादिभेदेनावायश्च धारणापि च । इत्येवं द्वादशविधं, मतिज्ञानमुदाहृतम् ॥ ३४ ॥ द्वादशेहावग्रहयोश्चत्वारो व्यञ्जनस्य च । उक्ता भेदाः षोडशैते, दर्शने चक्षुरादिके ॥ ३५ ॥ यदाह भाष्यकारः - "नाणमवायधिईओ, दंसणमिद्धं जहोग्गहेहाओ” । नन्वष्टाविंशतिविधं, मतिज्ञानं यदागमे । जेगीयते तन्न कथ ॥ ४८ ॥ मेवमुक्ते विरुध्यते ? ॥ ३६ ॥ अत्रोच्यते- मतिज्ञानचक्षुरादिदर्शनानां मिथो भिदम् । अविवक्षित्वैव मतिमष्टाविंशतिधा विदुः ॥ ३७ ॥ किंच- एकैकश्च प्रकारोऽयं, द्वादशधा विभिद्यते । ज्ञानस्यास्य ततो भेदाः स्युः षट्त्रिंशं शतत्रयम् ॥ ३८ ॥ तथोक्तं तत्त्वार्थ भाष्ये - एवमेतन्मतिज्ञानं द्विविधं चतुर्विधमष्टाविंशतिविधमष्टषष्ट्युत्तरशतविधं षटूत्रिंशत्रिशतविधं च भवतीति । ते चैवं- बबहुबहु विधान्यक्षिप्राक्षिप्राख्यनिश्रिततदन्याः । संदिरधासंदिग्धध्रुवाभ्रुवाख्या मतेर्भेदाः ॥३९॥ तथाहि - आस्फालिते सूर्यवृन्दे, कश्चिद्यथैकहेलया । भेरीशब्दा इयन्तोऽत्रैतावन्तः शङ्खनिःखनाः ॥ ४० ॥ इत्थं पृथक पृथक गृह्णन्, बहुग्राही भवेदर्थं । ओघतोऽन्यस्तूर्यशब्द, गृह्णन्न बहुविद्भवेत् ॥४१॥ माधुर्यादिविविधबहुधर्मयुक्तं वेत्ति यः स बहुविधवित् । अबहुविधवित्तु शब्द, वेत्येकद्व्यादिधर्मयुतम् ॥ ४२ ॥ वेत्ति कश्चिदचिरेण चिरेणान्यो विमृश्य च । क्षिप्राक्षिप्रग्राहिणी तौ, निर्दिष्टव्यौ यथाक्रमम् ॥ ४३ ॥ लिङ्गापेक्षं वेत्ति कश्चिद् ध्वजेनेव सुरालयम् । स भवेन्निश्रितग्राही, परो लिङ्गानपेक्षया ॥ ४४॥ निःसंशयं यस्तु वेत्ति, सोऽसंदिग्धविदाहितः । ससंशयं यस्तु वेत्ति, संदिग्धग्राहको हि सः ॥ ४५ ॥ ज्ञाते १ अबहुविधमहः २ भवेदसौ प्र० लोक. द्रव्य. ३ सर्गः Jain Education For Private & Personal Use Only बहुबहु विधादिभेदा' १५ २० २५ 1182 11 २७ jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy