SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Jain Educa ग्रहाद्या, धारणान्ता भवन्ति हि ॥ १८ ॥ यथा प्रथमतो वृक्षे, चक्षुर्गोचरमागते । किञ्चिदेतदिति ज्ञानं, स्यादवग्रहो ह्ययम् ॥ १९ ॥ ततस्तद्गतधर्माणां समीक्षेहा प्रजायते । निश्चयस्तरुरेवायमित्यवायस्ततो भवेत् ॥ २० ॥ ततस्तथा निश्चितस्य, धरणं धारणा भवेत् । भाव्यते मनसोऽप्येवमथार्थावग्रहादयः ॥ २१ ॥ यथा हि विस्मृतं वस्तु, पूर्व किञ्चिदिति स्मरेत् । ततश्च तद्गता धर्माः स्मर्यन्ते लीनचेतसा ॥ २२ ॥ ततश्च तत्तद्धर्माणां स्मरणात्तद्विनिश्चयः । ततः स्मृत्या निश्चितस्य, पुनस्तस्यैव धारणम् ॥ २३ ॥ अनिन्द्रियनिमित्तं च, मतिज्ञानमिदं भवेत् । अत एव त्रिधैतत्स्यादाद्यमिन्द्रियहेतुकम् ॥ २४ ॥ अनिन्द्रियसमुत्थं चेन्द्रियानिन्द्रियहेतुकम् । तत्राद्यमेकाक्षादीनां मनोविरहिणां हि यत् ॥ २५ ॥ केवलं हीन्द्रियनिमित्तकमेव भवेदिदम् । अभावान्मनसो नास्ति, व्यापारोऽत्र मनागपि ॥ २६ ॥ अनिन्द्रियनिमित्तं च, स्मृतिज्ञानं निरूपितम् । व्यापाराभावतोऽक्षाणां तदक्षनिरपेक्षकम् ॥ २७ ॥ अघज्ञानमविभक्तरूपं यदपि लक्ष्यते । वल्ल्यादीनां वृतिनीब्राद्यभिसर्पणलक्षणम् ॥ २८ ॥ तदप्यनिन्द्रियनिमित्तकमेव प्रकीर्त्यते । हेतुभावं भजन्तीह, नाक्षाणि न मनोऽपि यत् ॥ २९ ॥ मत्यज्ञानावरणीयक्षयोपशम एव हि । केवलं हेतुतामोघज्ञानेऽस्मिन्ननुते च यत् ॥ ३० ॥ यत्तु जाग्रदवस्थायामुपयुक्तस्य चेतसा । स्पर्शादिज्ञानमेतच्चेन्द्रियानिन्द्रियहेतुकम् ॥३१॥ इदमर्थतस्तत्त्वार्थवृत्तौ । अथ प्रकृतं - एवमर्थावग्रहेहा, अवायधारणा इह । स्युचतुर्विंशतिः षड्डि-र्हता इन्द्रियमानसैः ॥ ३२ ॥ व्यञ्जनावग्रहैः पूर्वोदितैश्चतुर्भिरन्विताः । स्युस्तेऽष्टाविंशतिर्भेदा, मतिज्ञानस्य निश्चिताः ॥ ३३ ॥ भगवतीवृत्तौ mational For Private & Personal Use Only ५ १० १४ www.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy