________________
लोक. द्रव्य. ३ सर्गः ॥ ४७ ॥
शिष्टस्य वस्तुनो यद् ग्रहणं - ज्ञानं तदवग्रह इति नाम्नाऽभिधीयत इति ॥ अत्र च प्राच्यमते दर्शनस्यावकाशं न पश्यामो, द्वितीयमते च व्यञ्जनावग्रहावकोशं न पश्यामः, तत्र तत्त्वं बहुश्रुतेभ्योऽवसेयं वक्ष्यमाणो वा महाभाष्याभिमतो व्यञ्जनावग्रहादीनां दर्शनस्य चाभेदोऽनुसरणीय इत्यलं प्रसङ्गेन । आवल्यसंख्येयभागो. व्यञ्जनावग्रहे भवेत् । कालमानं लघु ज्येष्ठमानं प्राणपृथक्त्वकम् ॥ ७ ॥ स चतुर्धा श्रोत्रजिह्वाघ्राणस्पर्शनिसंभवः । अप्राप्यकारिभावात्स्यान्न चक्षुर्मनसोरसौ ॥ ८ ॥ शब्दादेर्यः परिच्छेदो, मनाक् स्पष्टतरो भवेत् । किञ्चिदित्यात्मकः सोऽयमर्थावग्रह उच्यते ॥ ९ ॥ कालतोऽर्थावग्रहस्तु, स्यादेकसमयात्मकः । निश्चयाद्व्यवहाराचे, | स स्यादान्तर्मुहर्त्तिकः ॥ १० ॥ तस्यैवावगृहीतस्य, धर्मान्वेषणरूपिका । ईहा भवेत्कालमानमस्या अंतर्मुहर्त्तकम् ॥ ११॥ अथेहितस्य तस्येदमिदमेवेति निश्चयः । अवायो मानमस्यापि स्मृतमन्तर्मुहूर्त्तकम् ॥१२॥ निर्णीतार्थस्य मनसा, धरणं धारणा स्मृता । कालः संख्य उतासंख्यस्तस्या मानमवस्थितेः ॥ १३ ॥ बाल्ये दृष्टं स्मरत्येव, पर्यन्तेऽसंख्य जीवितः । ततः स्याद्धारणामानमसंख्यकालसम्मितम् ॥ १४ ॥ यथा हि सृज्यते पूर्व, श्रोत्रेण शब्दसंहतिः । ततश्च किञ्चिदश्रौषमित्यर्थावग्रहो भवेत् ॥ १५ ॥ ततः स्त्र्यादिशब्दनिष्ठं, माधुर्यादि विचिन्तयेत् । इयमीहा ततोऽवायो, निश्चयात्मा धृतिस्ततः ॥ १६ ॥ एवं गन्धरसस्पर्शेष्वपि भाव्या मनीषिभिः । घ्राणजिह्रास्पर्शनानां व्यञ्जनावग्रहादयः ॥ १७ ॥ व्यञ्जनावग्रहाभावाच्चक्षुर्मानसयोः पुनः । चत्वारोऽर्थाव१ न ह्यवर्णनमात्रादनवकाशो भवति, व्यञ्जनाख्यशक्तिमहादर्वागविशिष्टग्रहणे दर्शनता २ वैशिष्टयग्रहात्प्राक् व्यपदेशः। ३ तद्भवापेक्षया निर्णीतिः ।
Jain Education International
For Private & Personal Use Only
व्यञ्जनावग्रहादि
स्वरूपं
१५
२०
२५ 1180 11
www.jainelibrary.org