________________
वा । व्यज्यते यद् व्यञ्जनं तदितिव्युत्पत्त्यपेक्षया ॥५॥ ततश्च-व्यञ्जनैर्व्यञ्जनानां यः, संबन्धः प्रथमः स हि। व्यञ्जनावग्रहोऽस्पष्टतरावबोधलक्षणः॥६॥ अस्य च स्वरूपमेवं तत्त्वार्थवृत्तौ-यदोपकरणेन्द्रियस्य स्पर्शनादिपुद्गलैः। स्पर्शायाकारपरिणतः संबन्ध उपजातो भवति न च किमप्येतदिति गृह्णाति, किंवव्यक्तज्ञानोऽसौ सुप्तमत्तादिसूक्ष्मावबोधसहितपुरुषवदिति, तदा तैः स्पर्शाद्युपकरणेन्द्रियसंश्लिष्टैा चयावती च विज्ञानशक्तिराविरस्ति सैवंविधा ज्ञानशक्तिरवग्रहाख्या, तस्य स्पर्शनाद्युपकरणेन्द्रियसंश्लिष्टस्पर्शायाकारपरिणतपुद्गलराशेर्व्यञ्जनाख्यस्य ग्राहिकाऽवग्रह इति भण्यते, तेनैतदुक्तं भवति-स्पर्शनाद्युपकरणेन्द्रियसंश्लिष्टाः स्पर्शाद्याकारपरिणताः पुद्गला भण्यन्ते व्यञ्जनं, विशिष्टार्थावग्रहकारित्वात्, तस्य व्यञ्जनस्य परिच्छेदकोऽव्यक्तोऽवग्रहो भण्यते, अपरोऽपि तस्मान्मनाम् निश्चिततरः किमप्येतदित्येवंविधसामान्यपरिच्छेदोऽवग्रहो भण्यते, ततः परमीहादयः प्रवर्तन्ते इति ॥ रत्नाकरावतारिकायां चावग्रहलक्षणमेवमुक्तम्-विषयविषयिसन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाजातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रह इति । विषयः-सामान्य-| विशेषात्मकोऽर्थो विषयी-चक्षुरादिस्तयोः समीचीनो-भ्रान्त्याद्यजनकत्वेनानुकूलो निपातो-योग्यदेशाद्यवस्थानं तस्मादनन्तरं समुदभूतम्-उत्पन्नं यत्सत्तामात्रगोचरं-निःशेषविशेषवैमुख्येन सन्मात्रविषयं दर्शनंनिराकारो बोधस्तस्माजातम् आथं सत्त्वसामान्यावान्तरः सामान्याकारैः-मनुष्यत्वादिभिर्जातिविशेषैर्वि
।
Join Educat
For Private Personel Use Only
www.jainelibrary.org