________________
सर्वतोऽपि च । विरती इति निर्दिष्टं, सामायिकचतुष्टयम् ॥ १ ॥ चारित्रस्याष्ट समयान्, प्रतिपत्तिर्निरन्तरम् । शेषत्रयस्य चावल्यसंख्येयांशमितान् क्षणान् ॥ २ ॥ उत्कर्षेण प्रतिपत्तिकाल एष निरन्तरः । जघन्यतो द्वौ समयौ, चतुर्णामपि कीर्त्तितः ॥ ३ ॥ द्वादशपञ्चदशाहोरात्रास्तृतीयतुर्ययोः । आथयोः सप्त विरहो, ज्येष्ठोऽन्यश्च क्षणत्रयम् ॥ ४ ॥ सम्यक्त्वं देशविरतिं चाप्नोत्युत्कर्षतोऽसुमान् । क्षेत्रपल्योपमासंख्य भागक्षणमितान् भवान् ॥ ५ ॥ चारित्रं च भवानष्टौ श्रुतसामायिकं पुनः । भवाननन्तान् सर्वाणि, भवमेकं जघन्यतः ॥६॥ आकर्षाणां खलु शतपृथक्त्वं सर्वसंवरे । स्यात्सहस्रपृथक्त्वं च, त्रयाणामेकजन्मनि ||७|| नानाभवेषु चाकर्षा, | असंख्येयाः सहस्रकाः । आद्यत्रये तुरीये च स्यात्सहस्रपृथक्त्वकम् ॥ ८ ॥ यत्रयाणां प्रतिभवं, स्युः सहस्रपृथतवकम् | असंख्येया भवाश्चेति, युक्तास्तेऽमी यथोदिताः ॥९॥ चारित्रे यत्प्रतिभवं तेषां शतपृथक्त्वकम् । भवाश्चाष्टौ ततो युक्तं, तत्सहस्रपृथक्त्वकम् ॥१०॥ आकर्षः प्रथमतया ग्रहणं मुक्तस्य वा ग्रहणमिति, इदमर्थत आवश्यक सूत्रवृत्त्यादिषु । मिथ्यादृष्टिर्विपर्यस्ता, जिनोक्ताद्वस्तुतत्त्वतः । सा स्यान्मिथ्यात्विनां तच्च, मिथ्यात्वं पञ्चधा मतम् ॥ ८८ ॥ आभिग्रहिकमाद्यं स्यादनाभिग्रहिकं परम् । तृतीयं किल मिथ्यात्वमुक्तमाभिनिवेशिकम् ॥ ८९ ॥ तुर्यं सांशयिकाख्यं स्यादनाभोगिकमन्तिमम् । अभिग्रहेण निर्वृत्तं, तत्राभिग्रहिकं स्मृतम् ॥ ९० ॥ नानाकुदर्शनेष्वेकमस्मात्प्राणी कुदर्शनम् । इदमेव शुभं नान्यदित्येवं प्रतिपद्यते ॥ ९१ ॥ मन्यतेऽऽङ्गी दर्शनानि, यद्वशादखिलान्यपि । शुभानि माध्यस्थ्यहेतुरनाभिग्रहिकं हि तत् ॥ ९२ ॥
Jain Educat emational
For Private & Personal Use Only
५
१०
१४
www.jainelibrary.org