________________
लोक. द्रव्य. ३ सर्गः
॥ ४४ ॥
Jain Educatio
क्षायोपशमिकत्वं द्राक, प्राप्तेषु प्रकटीभवेत् । आत्मधर्मात्मकं तत्वश्रद्धानं किञ्चिदस्फुटम् ॥ ४५ ॥ क्षायोपशमिके क्षीणे, स्फुटं सर्वात्मना भवेत् । आत्मस्वरूपं सम्यक्त्वं तच्च क्षायिकमुच्यते ॥ ४६ ॥ एवं चतत्त्वश्रद्धानजनकसम्यक्त्वपुद्गलक्षये । कथं श्रद्धा भवेत्तत्त्वे, शषाऽपि निराकृता ॥ ४७ ॥ तथाहु र्भाष्यकारा:सो तस्स विसुद्धयरो, जायइ सम्मत्तपोग्गलक्खयओ । दिट्टिव सण्हसुद्धभपडलविंगमे मणूसस्स ॥ ४८ ॥ इदं कर्मग्रन्थमतं, सिद्धान्तस्य मते पुनः । अपूर्वकरणेनैव, मिथात्वं कुरुते त्रिधा ॥ ४९ ॥ सम्यक्त्वावारकर सं, | क्षपयित्वा विशोधिताः । मिथ्यात्वपुद्गलास्ते स्युः, सम्यक्त्वमुपचारतः ॥ ५० ॥ अर्धशुद्धा अशुद्धाश्च, मिश्रमि थ्यात्वसंज्ञकाः । एवं कोद्रवदृष्टान्तात्, त्रिषु पुत्रेषु सत्स्वपि ॥ ५१ ॥ यदाऽनिवृत्तिकरणात्, सम्यक्त्वमेव गच्छति । मिश्रमिध्यात्वपुञ्ज तु, तदा जीवो न गच्छति ॥ ५२ ॥ पुनः पतितसम्यक्त्वो, यदा सम्यक्त्वम्श्रुते । तदाप्यपूर्वकरणेनैव पुञ्जत्रयं सृजन् ॥ ५३ ॥ करणेनानिवृत्त्याख्येनैव प्राप्नोति पूर्ववत् । नन्वत्रापूर्वकरणे, प्रालब्धेऽन्वर्थता कथम् ? ॥ ५४ ॥ अत्रोच्यते - अपूर्ववदपूर्वं स्यात्, स्तोकवारोपलम्भतः । अपूर्वत्वव्यपदेशो भवेल्लोकेऽपि दुर्लभे ।। ५५ ।। इदमर्थतो विशेषावश्यकवृत्तौ । सम्यग्दृष्टिव्यपदेशनिबन्धनमितीतम् । सम्यक्त्वं त्रिविधं शुद्धश्रद्धारूपं मनीषिभिः ॥५६॥ यदिवैकद्वित्रिचतुःपञ्चभेदं भवेदिदम् । जिनोक्ततत्त्वश्रद्धानरूपमेकविधं भवेत् ॥ ५७ ॥ द्विधा नैसर्गिकं चौपदेशिकं चेतिभेदतः । भवेन्नैश्चयिकं व्यावहारिकं | चेति वा द्विधा ॥ ५८ ॥ द्रव्यतो भावतश्चेति, द्विधा वा परिकीर्त्तितम् । तत्र नैसर्गिकं स्वाभाविकमन्यद्
tional
For Private & Personal Use Only
सम्यक्त्वोत्पादः
१५
२०
२५
॥ ४४ ॥
२८
jainelibrary.org