________________
अथ प्रकृतम्-इदं चोपशमश्रेण्यामपि दर्शनसप्तके । उपशान्ते भवेच्छ्रेणिपर्यन्तावधि देहिनाम् ॥ ३४॥ तथा-यथौषधिविशेषेण, जनैर्मदनक्रोद्रवाः । त्रिधा क्रियन्ते शुद्धार्धविशुद्धाशुद्धभेदतः ॥ ३५॥ तथाऽनेनौपशमिकसम्यक्त्वेन पटीयसा । विशोध्य क्रियते त्रेधा, मिथ्यात्वमोहनीयकम् ॥ ३६॥ तत्राशुद्धस्य पुञ्जस्योदये मिथ्यात्ववान् भवेत् । पुञ्जस्याधविशुद्धस्योदये भवति मिश्रहम् ॥ ३७॥ उदये शुद्धपुञ्जस्य, क्षायोपशमिकं भवेत् । मिथ्यात्वस्योदितस्यान्तादन्यस्योपशमाच तत् ॥ ३८॥ आरब्धक्षपकणेः, प्रक्षीणे सप्तके भवेत् । क्षायिकं तद्भवसिद्धेस्त्रिचतुर्जन्मनोऽथवा ॥ ३९॥ तत्त्वार्थभाष्ये चैतेषां खरूपमेवमुक्तम्क्षयादि त्रिविधं सम्यग्दर्शनं, तदावरणीयस्य कर्मणो दर्शनमोहस्य च क्षयादिभ्य इति, अस्य वृत्तिः-मत्याद्यावरणीयदर्शनमोहसप्तकक्षयादुपजातं क्षयसम्यग्दर्शनमभिधीयते, तेषामेवोपशमाज्जातमुपशमसम्यग्दर्शनमुच्यते, तेषामेव क्षयोपशमाभ्यां जातं क्षयोपशमसम्यग्दर्शनमभिदधति प्रवचनाभिज्ञा इति तत्वार्थप्रथमाध्याये । ननु च-तत्त्वश्रद्धानजनक, क्षायोपशमिकं यदि । सम्यक्त्वस्य क्षायिकस्य, कथमावारकं तदा ॥४०॥ यदि मिथ्यात्वजातीयतया तदपवारकम् । तदात्मधर्मः श्रद्धानं, कथमस्मात्प्रवर्तते? ॥४१॥ अत्रोच्यतेयथा श्लक्ष्णाभ्रकान्तःस्था, दीपादेयोतते द्युतिः । तस्मिन् दूरीकृते सर्वात्मना संजृम्भतेऽधिकम् ॥४२॥ यथा वा मलिनं वस्त्रं , भवत्यावारकं मणे । निर्णिणज्योज्ज्वलिते तस्मिन् , भाति काचन तत्प्रभा ॥४३॥ मूलादू दूरीकृते चास्मिन, सा स्फुटा स्यात्वरूपतः । मिथ्यात्वपुद्गलेष्वेवं, रसापवर्तनादिभिः ॥४४॥
B002020/29/200909200002002020rae
Join Educe
mational
For Private & Personel Use Only
Oww.jainelibrary.org