________________
लोक.द्रव्य.
३ सगे:
॥४३॥
वलितस्तु सः । ग्रन्धि प्राप्यापि दुर्भावाद्, यो ज्येष्ठस्थितिबन्धकः ॥ २४ ॥ चौररुद्धस्तु स ज्ञेयस्ताहगरागादि- सम्यक्त्वोबाधितः । ग्रन्थि भिनत्ति यो नैव, न चापि वलते ततः ॥ २५॥ स त्वभीष्टपुरं प्राप्तो, योऽपूर्वकरणाद् ।
त्पाद: द्रुतम् । रागद्वेषावपाकृत्य, सम्यगदर्शनमाप्तवान् ॥२६॥ सम्यक्त्वमौपशमिकं, ग्रन्थि भित्त्वाऽश्नुतेऽसुमान् । महानन्दं भट इव, जितदुर्जयशात्रयः ॥ २७ ॥ तच्चैवं-अथानिवृत्तिकरणेनातिखच्छाशयात्मना । करोत्यन्तरकरणमन्तर्मुहूर्त्तसंमितम् ॥२८॥ कृते च तस्मिन्मिथ्यात्वमोहस्थितिबिधा भवेत् । तत्राद्यान्तरकरणादधस्तन्यपरोवंगा ॥ २९ ॥ तत्राद्यायां स्थितौ मिथ्यादृक् स तद्दलवेदनात् । अतीतायामथैतस्यां, स्थितावन्तर्मुहूर्त्ततः ॥ ३० ॥ प्रामोत्यन्तरकरणं, तस्याद्यक्षण एव सः । सम्यक्त्वमौपशमिकमपौगलिकमाप्नुयात् ॥ ३१॥ यथा वनवो दग्धेन्धनः प्राप्यातृणं स्थलम् । स्वयं विध्यायति तथा, मिथ्यात्वोग्रदवानलः ॥३२॥ अवाप्यान्तरकरणं, क्षिप्रं विध्यायति स्वयम् । तदोपशमिकं नाम, सम्यक्त्वं लभतेऽसुमान् ॥ ३३॥ अत्रायमौपशमिकसम्यक्त्वेन सहानुयात् । देशतो विरतिं सर्वविरतिं वाऽपि कश्चन ॥३४॥ तथोक्तं शतकचूर्णी"-उवसमसम्मद्दिट्टी अंतरकरणे ठिओ कोई देसविरइंपि लभइ, कोई पमत्तापमत्तभावंपि; सासायणो पुण किंपि न लभइत्ति" इति, अर्थतः कर्मप्रकृतिवृत्तावपि । किंच-बद्ध्यते त्यक्त- ॥४३॥ सम्यक्त्वैरुत्कृष्टा कर्मणां स्थितिः। भिन्नग्रन्थिभिरप्युग्रो, नानुभागस्तु तादृशः ॥१॥ इदं कार्मग्रन्थिकमतं । भवेद्भिन्नग्रन्थिकस्य, मिथ्यादृष्टेरपि स्फुटम् । सैद्धान्तिकमते ज्येष्ठः, स्थितिवन्धो न कर्मणाम् ॥२॥
52029202992929
M
For Private & Personal Use Only
Jain Education tomational
ainelibrary.org