________________
लोक द्रव्य. ३ सर्गः
वेदाधिकार २४ दृष्ट्यधिकारा२५
॥४२॥
शरीरिणः । वशीकृता विपाकेन, गुरुस्थितिककर्मणाम् ॥९७॥ अथैतेष कश्चिदगी, कर्माणि निखिलान्यपि कुर्याद्यथाप्रवृत्ताख्यकरणेन स्वभावतः॥९८॥ पल्यासंख्यलवोनैककोट्यब्धिस्थितिकानि वै। परिणामविशेषोऽत्र, करणं प्राणिनां मतम् ॥ १९॥ युग्मम् । तत्रिधा तत्र चाद्यं स्याद्यथाप्रवृत्तनामकम् । अपूर्वकरणं नामानिवृत्तिकरणं तथा ॥६००॥ वक्ष्यमाणग्रन्थिदेशावधि प्रथममीरितम् । द्वितीयं विद्यमानेऽस्मिन् , भिन्ने ग्रंथौ तृतीयकम् ॥१॥त्रीण्यप्यमूनि भव्यानां, करणानि यथोचितम् । संभवन्त्येकमवाद्यमभव्यानां तु संभवेत् ॥ २॥ आद्येन करणेनागी, करोति कर्मलाघवम् । धान्यपल्यगिरिसरिददृषदादिनिदर्शनैः ॥३॥ यथा धान्यं भूरि भूरि, कश्चिद् गृह्णाति पल्यतः । क्षिपत्यत्राल्पमल्पं च, कालेन कियताऽप्यथ ॥ ४॥ धान्यपल्यः सोऽल्पधान्यशेष एवावतिष्ठते । एवं बहूनि कर्माणि, जरयन्नसुमानपि ॥५॥ बन्नंश्चाल्पाल्पानि तानि, कालेन कियताऽपि हि । स्यादल्पकर्माऽनाभोगात्मकाद्यकरणेन सः॥ ६॥ यथाप्रवृत्तकरणं, नन्वनाभोगरूपकम् । भवत्यनाभोगतश्च, कथं कर्मक्षयोऽङ्गिनाम् ॥ ७॥ अत्रोच्यते-यथा मिथो घर्षणेन, ग्रावाणोऽद्रिनदीगताः । स्युश्चित्राकृतयो ज्ञानशून्या अपि स्वभावतः॥८॥तथा यथाप्रवृत्तात्स्युरप्यनाभोगलक्षणात् । लघुस्थितिककर्माणो, जन्तवोऽत्रान्तरेऽथ च ॥९॥ रागद्वेषपरीणामरूपोऽस्ति ग्रन्थिरुत्कटः । दुर्भेदो दृढकाष्ठादिग्रन्धिवद्गाढचि- कणः ॥१०॥ मिथ्यात्वं नोकषायाश्च, कषायाश्चेति कीर्तितः। जिनैश्चतुर्दशविधोऽभ्यन्तरग्रन्थिरागमे ॥११॥ प्रागुक्तरूपस्थितिककर्माणः केऽपि देहिनः। यथाप्रवृत्तकरणाद्, ग्रन्थेरभ्यर्णमियूति ॥ १२॥ एतावच प्राप्तपूर्वा,
बाल्पमल्पं च सरिषदादिमियानां तु संभोवतीय
बाल्पाल्पानाभोगरूपका । युधि-
SSSOORDABADOS
२५
२५ ॥
॥४२॥
२८
Jain Education
GHARitional
For Private & Personel Use Only
Olainelibrary.org