________________
लोक द्रव्य. ३ सर्गः
॥४१॥
१५
"भावमनो विनापि च द्रव्यमनो भवति, यथा भवस्थकेवलिनः,” इति प्रज्ञापनावृत्तौ ॥ स्तोका मनस्विनोऽसङ्ख्य-संजाधिकागुणाः श्रोत्रान्वितास्ततः । चक्षुर्घाणरसज्ञाख्याः, स्युः क्रमेणाधिकाधिकाः ॥ ७८ ॥ अनिन्द्रियाश्च निर्दिष्टा, | २:२३ एभ्योऽनन्तगुणाधिकाः । स्पर्शनेन्द्रियवन्तस्तु, तेभ्योऽनन्तगुणाधिकाः ॥ ७९ ॥ लोकैश्च-चक्षुःश्रोत्रघ्राणरसनत्वमनोवाक्पाणिपायूपस्थलक्षणान्येकादशेन्द्रियाणि सुश्रुतादौ उक्तानि, नाममालायामपि 'बुद्धीन्द्रियं स्पर्शनादि, पाण्यादि तु क्रियेन्द्रियं' इत्यभिहितं, ॥ इतीन्द्रियाणि २२॥ संज्ञा येषां सन्ति ते स्युः, संज्ञिनोऽन्ये त्वसंज्ञिनः । संज्ञिनस्ते च पञ्चाक्षा, मनःपर्याप्तिशालिनः॥ ७९ ॥ ननु संमूर्छिमपञ्चाक्षान्तेष्वेकेन्द्रियादिषु ।। आहाराद्याः सन्ति संज्ञास्ततस्ते किं न संज्ञिनः ॥ ८॥ अत्रोच्यते-ओघरूपा दशाप्यतास्तीव्रमोहोदयेन च । अशोभना अव्यक्ताश्च, तन्नाभिः संज्ञिता मता ॥ ८१॥ निद्राव्याप्तोऽसुमान् कण्डूयनादि कुरुते यथा । मोहाच्छादितचैतन्यास्तथाऽऽहाराद्यमी अपि ॥ ८२ ॥ ततश्च-संज्ञासंबन्धमात्रेण, न संज्ञित्वमुरीकृतम् । नो-1 केनैव निष्केण, धनवानुच्यते जनः॥८३ ॥ अतादृग्रूपयुक्तोऽपि, रूपवान्नाभिधीयते । धनी किंतु बहुद्रव्य, रूपवान् रम्यरूपतः॥ ८४॥ महत्या व्यक्तया कर्मक्षयोपशमजातया । संज्ञया शस्तयैवाङ्गी, लभते संज्ञितां तथा ॥ ८५॥ इदमर्थतो विशेषावश्यके ॥ ततश्च-येषामाहारादिसंज्ञा, व्यक्तचैतन्यलक्षणाः । कर्मक्षयोपश- २५ मजाः, संज्ञिनस्तेऽपरेऽन्यथा ॥८६॥ दीर्घकालिक्यादिका वा, संज्ञा येषां भवन्ति ते । संज्ञिनः स्युर्यथायो- ॥४१॥ १ सामान्यरूपाः । २ संप्रधारणसंज्ञापेक्षयैव ।
Jain Education International
For Private & Personal Use Only
M
ainelibrary.org