________________
विजयादिविमानेषु, द्विरुत्पन्नो ह्यनन्तरे । भवे विमुक्तिमानोति, ततो युक्तं यथोदितम् ॥ ६९॥ अन्यजातित्वे त्वनन्तान्यतीतान्यथ सन्ति न । भावी नि संख्यान्येवैषां, नृत्ववैमानिकत्वयोः॥७॥ तथोक्तं प्रज्ञापनावृत्ती"इह विजयादिषु चतुएं गतो जीवो नियमात्तत उद्धृतो न जातुचिदपि नैरयिकादिषु पञ्चेन्द्रियतिर्यकपर्यवसानेषु तथा व्यन्तरेषु ज्योतिष्केषु च मध्ये समागमिष्यति, मनुष्येषु सौधर्मादिषु वा गमिष्यतीति । सर्वार्थसिद्धदेवत्वे, सर्वार्थसिद्धनाकिनाम् । न स्युर्भूतभविष्यन्ति, सन्ति पश्चाष्ट च स्फुटम् ॥ ७१ ॥ तेषामन्यगतित्वे चातीतानि स्युरनन्तशः। नैव सन्ति भविष्यन्ति, नृगतावष्ट पञ्च च ॥ ७२ ॥ संज्ञिपश्चेन्द्रियाणां यत्, स्मृत्यादिज्ञानसाधनम् । मनोनोइन्द्रियं तच, द्विविधं द्रव्यभावतः॥७३ ॥ तत्र च-मन:पर्याप्स्यभिधाननामकर्मोदयादिह । मनोयोग्यवर्गणानामादाय दलिकान्यलम् ॥ ७४ ॥ मनस्त्वेनापादितानि, जन्तुना द्रव्यमानसम् । जिनैरूचे तथा चाह, नन्द्यध्ययनचूर्णिकृत् ॥ ७५ ॥ "मणपज्जत्तिनामकम्मोदयतो जोग्गे मणोदवे घेत्तुं मणत्तेण परिणामिया दवा दवमणो भन्नई" इति। मनोद्रव्यावलम्बन, मन:परिणतिस्तु या । जन्तोभावमनस्तत्स्यात्तथोक्तं पूर्वसूरिभिः ॥७६॥ "जीवो पुण मणपरिणामकिरियावंतो भावमणो, किं भणियं होइ ?, मणदवालंबणो जीवस्स मणणवावारो भावमणो भन्नई” इति नन्द्यध्ययनचूर्णी । अत एव च-द्रव्यचित्तं विना भावचित्तं न स्यादसंज्ञिवत् । विनापि भावचित्तं तु, द्रव्यतो जिनवद्भवेत् ॥ ७७ ॥ तथोक्तं१ शतके तूत्कृष्टबन्धान्तरदर्शनप्रसङ्गे विजयाइसु इति जलहिसयं इति च गाथावृत्तौ अधिका भवाः, तिरिनिरयेतिवृत्तौ बन्धश्चान्यगतीनां
Jain Educati
o
nal
For Private & Personel Use Only
Sijainelibrary.org