________________
तादि, वस्त्वपेक्ष्य स निश्चितः॥४०॥ स्याद्भाखरं तु सूर्यादि, वस्त्वपेक्ष्याधिकोऽपि सः। व्याख्यानतो विशेपार्थप्रतिपत्तिरियं किल ॥४१॥ इदं विशेषावश्यकेऽर्थतः ॥ अनन्ताणूद्भवान्यतानीन्द्रियाण्यखिलान्यपि । असङ्ख्येयप्रदेशावगाढानि निखिलानि च ॥४२॥ स्तोकावगाहा दृक श्रोत्रघ्राणे सङ्ख्यगुणे क्रमात् । ततोऽसयगुणा जिह्वा, सङ्ख्यन्नं स्पर्शनं ततः॥४३॥ स्तोकप्रदेशं नयनं, श्रोत्रं सङ्ख्यगुणाधिकम् । ततोऽसंख्यगुणं घ्राणं, जिह्वाऽसङ्ख्यगुणा ततः॥४४॥ ततोऽप्यसयगुणितप्रदेशं स्पर्शनेन्द्रियम् । इत्यल्पबहुतैषां स्यादवगाहप्रदेशयोः॥४५॥ तुर्योपाङ्गे तु-श्रोत्राक्षिनासिकं द्वे द्वे, जिकैका स्पर्शनं तथा । एवं द्रव्येन्द्रियाण्यष्टौ, भावेन्द्रियाणि पंच तु॥४६॥ सर्वेषां सर्वजातित्वे, द्रव्यतो भावतोऽपि च ।अतीतानीन्द्रियाणि स्युरनन्तान्येव देहिनाम् ॥४७॥ विनाऽनादिनिगोदेभ्यो, ज्ञेयमेतत्तु कोविदैः। खजातावेव तेषां तु, तान्यतीतान्यनन्तशः॥४८॥ किंच-येषामनन्तः कालोऽभून्निर्गतानां निगोदतः । तेषामपेक्षया ज्ञेयमेतत् श्रुतविशारदैः॥४९॥ एवमन्यत्रापि यथासम्भवं भाव्यं ॥ एकादीनि सन्ति पञ्चान्तानि भावेन्द्रियाणि च । एकद्वित्रिचतुष्पञ्चेन्द्रियाणां स्युर्यथाक्रमम् ॥५०॥ भावीनि नैव केषाञ्चिद्वर्तन्ते मुक्तियायिनाम् । केषाञ्चित्पञ्च षट् सप्त, सङ्ख्यासङ्ख्यान्यनन्तशः ॥५१॥ सिध्यतां भाविनि भवे, नरनारकनाकिनाम् । पञ्चाक्षतिर्यक्पृथ्व्यम्बुद्रूणां पञ्च जघन्यतः ॥५२॥ पृथ्व्यादिजन्मान्तरितमुक्तीनां तु मनीषिभिः। षट्सप्तप्रमुखाण्येवं, भाव्यानि प्रोक्तदेहिनाम् ॥५३॥ १ तद० प्र० । २ च प्र० । ३ लब्धीन्द्रियापेक्षया । ४ गोदिभ्यो प्र० ।
HAMपच तू ॥४६॥ सर्वेषानासिकं दे द्वे, शिनन्द्रियम् । इत्यल्पयततोऽसं
Jain Educa
t
iona
For Private & Personal Use Only
S
ww.jainelibrary.org