________________
लोक. द्रव्य. ३ सर्गः
1138 11
पुर्यादौ खाङ्गुलमितनबद्वादशयोजने ॥ ३४ ॥ एकत्र वादिता भम्भा, सर्वत्र श्रूयते जनैः । तस्मादात्माङ्गुलोन्मेया, विषया इति युक्तिमत् ॥ ३५॥ युग्मम् । आह - प्रमाणाङ्गुलजाने कलक्षयोजन सम्मिते । खर्विमाने कथं घण्टा, सर्वत्र श्रूयते सुरैः १ ॥ ३६ ॥ त्रैधैरप्यङ्गुलैर्नैष, विषयो घटते श्रुतेः । द्वितीयोपाङ्गटीकायामस्योत्तरमवेक्ष्यतां ॥ ३७ ॥ तथाहि - तस्यां मेघौघर सितगम्भीरमधुरशब्दायां योजनपरिमण्डलायां सुखराभिधानायां घण्टायां त्रिस्ताडितायां सत्यां यत्सूर्याभं विमानं तत्प्रासादनिष्कुटेषु ये आपतिताः शब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानि घण्टाप्रतिश्रुतिशतसहस्राणि-घण्टा प्रतिशब्दलक्षास्तैः संकुलमपि जातमभूत्, किमुक्तं भवति ?घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तत्प्रतिघाततः सर्वासु दिक्षु विदिक्षु च दिव्यानुभावतः समुच्छ लितैः प्रतिशब्दैः सकलमपि विमानमनेकयोजनलक्षमानमपि बधिरितमुपजायते इति एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति, न परतः, ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छन्दश्रुतिरुपजायते इति यदुच्यते तदपाकृतमवसेयं, सर्वत्र दिव्यानुभावतस्तथारूपप्रतिशब्दोच्छलने यथोक्तदोषासंभवात् । अपरं च - इगवीसं खलु लक्खा, चडतीसं चेव तह सहस्साईं । तह पंच सया भणिया, सत्तत्तीसा य अइरित्ता ॥ १ ॥ २१३४५३७ ॥ इति नयणविसयमाणं, पुक्खरदीवडवासिम आणं । पुत्रेण य अवरेण य, पिहं पिहं होइ नायवं ॥ ३८ ॥ एवं च स प्रागुक्तोऽक्षिविषयो, न विसंवदते कथम् ? | अत्रैतत्सूत्रतात्पर्य, व्याचचक्षे बुधैरिदम् ॥ ३९ ॥ लक्षयोजनमानो हविषयः परमस्तु यः । अभाखरं पर्व -
Jain Education national
For Private & Personal Use Only
इन्द्रियाधि
कारः २२
१५
२०
॥ ३९ ॥ २५
ainelibrary.org