SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ नात् ॥ समेऽपि प्राप्यकारित्वे, चतुर्णामपि नन्वयम् । को विशेषः स्पृष्टबद्धस्पृष्टार्थग्रहणात्मकः ॥२५॥ अत्रोच्यते-स्पर्शगन्धरसद्रव्यौघानां शब्दव्यपेक्षया । अल्पत्वाद्वादरत्वाचाभावुकत्वाच सत्वरम् ॥ २६ ॥ स्पर्शनघ्राणजिह्वानां, मन्दशक्तितयाऽपि च । बद्धस्पृष्टं वस्तुजातं, गृह्णन्त्येतानि निश्चितम् ॥ २७॥ स्पर्शादिद्रव्यसंघातापेक्षया शब्दसंहतिः । बह्वी सूक्ष्माऽऽसन्नशब्दयोग्यद्रव्याभिवासिका ॥ २८॥ तन्निवृत्तीन्द्रियस्यान्तर्गत्वोपकरणेन्द्रियम् । स्पृष्ट्वाऽपि सद्यः कुरुतेऽभिव्यक्तिं सा खगोचराम् ॥ २९॥ अन्येन्द्रियापेक्षया च, श्रवणं पटुशक्तिकम् । ततः स्पृष्टानेव शब्दान्, गृह्णातीत्युचितं जगुः ॥ ३० ॥ स्पृष्टार्थग्राहकत्वं यत, परैरक्ष्णोऽपि कथ्यते । तदयुक्तं तथात्वे हि, दाहः स्यादन्ह्यवेक्षणात् ॥ ३१॥ तथा-काचपात्राद्यन्तरस्थं, दूरादेवेक्ष्यते जलम् । तद्भित्त्वान्तःप्रवेशे तु, जलश्रावः प्रसज्यते ॥ ३२॥ इत्याधिकं रत्नाकरावतारिकादिभ्योऽवसेयं, विस्तरभयान्नेह प्रतन्यते, यच्च सिद्धांते 'चक्खुप्फासं हवमागच्छई' इति श्रूयते, तत्र स्पर्शशब्देन इन्द्रियार्थसन्निकर्ष उच्यते, तथाहु:-'सूरिए चक्खुप्फासं हवमागच्छई' इत्येतज्जम्बूद्वीपप्रज्ञप्तिप्रतीकवृत्ती-"अत्र च स्पर्शशब्द इन्द्रियार्थसन्निकर्षपरश्चक्षुषोऽप्राप्यकारित्वेन तदसंभवा"दिति । मेया आत्माङ्गुलैरव, प्रागुक्तेन्द्रियगोचराः । प्रमाणाङ्गुलमाने स्युर्महीयांसोऽधुना हि ते ॥ ३३ ॥ उत्सेधाङ्गुलमाने तु, कथं भरतचक्रिणः। १ शब्दसंहतिः । २ श्रुतेर्यत्प्राप्यकारित्वे, बौद्धोक्तं स्पर्शदूषणम् । चण्डालशब्दश्रवणादिष्वयौक्तिकमेव तत् ॥ १॥ स्पृश्यास्पृश्यविचारो हि, स्याल्लोकव्यवहारतः । नेन्द्रियाणां च विषयेष्वसौ कस्यापि संमतः ॥ २॥ प्र० । ३ योग्यदेशावस्थितिः यतो ग्रहणम् । 992292020908820320030308 Jain Educa t ional For Private & Personal Use Only N ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy