________________
भी भगवती|
अवचूरिः
सूत्र
इति भिन्नः कालः । साकारानाकारोपयोगयोर्भिन्ने सति अनाकारोपयोगापगमे यदा साकारोपयोगं गतः स प्रथमसमयेऽप्रदेशः, ततः परं सप्रदेशः स्यात् । एवमनाकारोपयोगेऽपि स वेदकः । उपशमको यदा अबदेकः सन् प्रतिपतितः तदा प्रथमसमये सवेदकत्वेनापदेशः, ततः परं सप्रदेशः, अन्यवेदसंक्रान्तः स्त्रीनपुंसकमेदार भावनीयाः। अवेदकाः क्षपकोपशमककेवलिसिद्धाः एषां प्रथमसमयेऽप्रदेशता शेषेषु सप्रदेशता । शरीरत्वमनादिरयंमावः-अनादित्वात् भावस्य नियमात् समदेशता । औदारिकादिषु अन्योन्यं संक्रान्तौ प्रथमसमये प्रदेशता, शेषेषु सप्रदेशता । तेजसकार्मणयोरनादिसंयोगः अनादित्वात् नियमात्सप्रदेशता । अशरीरः सिद्धः तत्र प्रथमसमयेऽप्रदेशता । विग्रहगती | अनाहारकस्य आहारपर्याप्तिगतस्य प्रथमसमयेऽप्रदेशता, शेषेषु सप्रदेशता । एवं शरीरेन्द्रियपर्याप्तिः पाणापानपर्याप्तिः अभाषकस्याऽऽभाषकसंक्रान्तौ भाषापर्याप्तिभावना कार्या । मनःपर्याप्तिरपि । एवमाहारकपर्याप्त्या अपर्याप्तकः पूर्वमाहारकपर्याप्त्या पर्याप्तकः सन् अपर्याप्ततां गतः स प्रथमसमयेऽप्रदेशः, शेषेषु सप्रदेशः । एवं शेषा,-पच्चक्खाणाऽपच्चक्खाणं देशप्रत्याख्यानमित्युक्तं भवतीति ।
॥ इति षष्ठशतके चतुर्थोद्देशकः समाप्तः ॥
१ पु० वेदा।
॥७५॥
in Educh an inter
For Private & Personal Use Only
www.jainelibrary.org