SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥७४॥ Jain Education International कथम् ? यस्य सम्यग्दर्शनं पतितं स मिथ्यादृष्टित्वप्रथम समयेऽप्रदेशः, शेषस्तु सप्रदेशः न पृथक् च त्रिकभङ्गकः एकबहुस्वभंगसम्भवात् । सम्यग्मिथ्यादृष्टिः स्यात् कथम् १ प्रथमसमये यस्य सम्यरमिध्यादृष्टित्व परिणामः सोऽप्रदेशः, शेषस्तु सप्रदेशः, संयतत्वं यस्य प्रथमसमयप्रतिपन्नस्य सोऽप्रदेशः, शेषस्तु सप्रदेशः । असंयतो यो हि संयतः असंयतपरिणामं गतः स प्रथमसमयेऽप्रदेशः, शेषेषु सप्रदेशः १, २सकषायी उपशमको यः प्रतिपतितः स पूर्वमभूदकपायी प्रथमसमये कषायतां गतः सोऽप्रदेशः, शेषेषु सप्रदेशः । “कोहे माणे माया, बोधव्वा सुरगणेहिं छन्भंगा | माणे माया लोमे, गेरतिएहिं पिछभंगा ||१|| " नारकाः क्रोधप्रचुराः, देवा: लोभप्रचुरा इति । अकषायी सिद्धः केवली च प्रथमसमयोत्पत्तौ अप्रदेशः, शेषेषु सप्रदेशः । ज्ञानी स्यात्, पूर्वमभूदज्ञानी ज्ञानित्वे यः प्रथमसमयः तत्राप्रदेशः, शेषेषु सप्रदेशः, एवमवधिमनःपर्याय केवलेषु भाव्यम् । ज्ञानी यः अज्ञानतां गच्छति तदा प्रथमसमये अप्रदेशः, शेषेषु सप्रदेशः । सयोगी अनादित्वात् भावस्य नियमात् सप्रदेशः, अयोगी सिद्धः प्रथमसमयेऽप्रदेशः, शेषेषु सप्रदेशः । 'सागारोवउत्तेसु सागारो सनाणे, अणगारो सदंसणे भवति' 'जं समयं जाणति णो तं समयं पासति १ पु० इति । २ पु० संयतासंयतः श्रावकः यस्व श्रावकत्वप्रतिपत्तेः प्रथमसमयः सोऽप्रदेशः, शेषेषु सप्रदेशः । नोज्ञी नोऽसंज्ञी विद्धः प्रथमसमयेऽपदेशः शेषेषु सप्रदेशः । For Private & Personal Use Only अवचूरिः www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy