________________
भी भगवती
अवचूरिः
सूत्र
द्वयादिसमयोत्पन्नका बहवः, जघन्यायां स्थितौ समयाधिकायामल्पतोऽनुपातः, तस्यां च प्रथमसमयोत्पन्न लभ्येतैका | अत उच्यते-'सपएसो य अपएसो य' प्रथमसमयोत्पन्ना बहवः लम्यन्ते यदा तदोच्यन्ने-'सपदेसा य अपदेसा य' | एकेन्द्रियाणां बहूनां युगपदुपपात इति । तत्र बहवः प्रथमसमयोत्पन्ना बहवश्च द्विसमयाद्युत्पन्नास्तेन सप्रदेशा अप्रदेशाश्च 'आहारये णं बंधे' इत्यादि आहारकः कालतः अस्ति विग्रहकाले अनाहारकः तस्मादाहारकः कालादाहारकत्वेन यः प्रथमसमयोत्पन्नः सोऽप्रदेशः, द्विसमयादिर्यः सप्रदेशः, तेन स्यात् १अनाहारकः सप्रदेशस्तेन स्यात् । अन्ये विग्रहगतिस्था अनाहारकास्तेषामेकं द्वौ वाऽनाहारक इति ये त्वनाहारकपथमसमये वर्तन्ते, ते अप्रदेशाः, ये द्विव्यादिषु अनाहारकसमयेषु वर्तन्ते ते सप्रदेशाः । एकेन्द्रियेषु बह्व उत्पद्यन्ते इति । अतो भङ्गकद्विन्द्रीयादीनां स्तोकतराणामुत्पात इति । एकद्विलाभोऽस्ति, एकद्विलाभे च भङ्गसंभवः, भव्यत्वस्यानादित्वात् सप्रदेशता, भव्यनारकः प्रथमसमयोत्पातेऽप्रदेशः, द्विसमयादिना सप्रदेशः, सल्लेश्यातोऽनादिरयं भावस्तस्मात्सप्रदेशः, पृथिव्यवनस्पतिपुर तेजोलेश्यो देवो लभ्यत इति | एकद्विसंभवाच्च षड्भङ्गाः, अलेश्यसिद्धः प्रथमसमयेऽप्रदेशः, द्विसमयादिः सप्रदेशः, सम्यग्दर्शनलब्धिर्या प्रथमसमये तत्राप्रदेशः, शेपेषु सप्रदेशः, केवलिसद्धावुभावपि सम्यग्दृष्टी प्रथमसमयकेवली प्रथमसमयसिद्धत्वे अदेशः, शेषः सप्रदेशः । एकेन्द्रिया नित्यमिथ्यादृष्टय इति वर्जनीयाः, मिथ्यादृष्टिः स्यात् , १ पु० 'अनाहारए णं भंते !' इत्यादि । २ पु० तिषु । ३ पु० एकद्विसंभवः। ४ पु० सिद्धिश्च ।
॥७३॥
Jain Education Inteman
For Private
Personal Use Only
www.ainelibrary.org