SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ओ भगवती सूत्र अवचूरिः शरीराणि त्रीण्येव तेषाम् , सर्वे एवैतेषु शरीरेषु वर्त्तन्ते । बाहुल्यात्क्रोधोपयुक्ता बहबस्तेन सप्तविंशतिः । शरीरत्रिके सर्वे एवासंहननाः, सर्वत्र क्रोधप्रचुरास्तेन सप्तविंशतिः । सर्वे च हुण्डकसंस्थानाः सर्वग्रहणकात्त्राचुर्यम् , तत प्राचर्याच्च सप्तविंशतिः । कापोतलेश्याः सर्वे एव, सर्वग्रहणात प्राचुर्य प्राचुर्यात्सप्तविंशतिः । बहवः सम्यग्दृष्टयो नारका मिथ्यादृष्टयश्च, बहुत्वाच्च क्रोधप्राचुर्याच्च सप्तविंशतिः । सम्यग्मिथ्यात्वेऽल्पास्तेनैकोऽपि संभवति, अतोऽशीतिः । अज्ञानिनो ज्ञानिश्च बहवः, बहुत्वात्तथैव सप्तविंशतिः । उपयोगे च सर्वे एव, अतोऽशीतिः एवं तावबारकाणां क्रोधवाहुल्यात्क्रोधे बहुवचनप्रयोगः । देवानां तु लोभवाहुल्यात लोभे बहुवचनं प्रयोक्तव्यम् , भवनवासिनो प्रायो लोभप्रचुरत्वात् सर्वेऽपि तावद्भवेयुलोभोपयुक्ताः शेषं नारकाणामिवानुसर्तव्यमिति । पृथिवीकायिका:-सर्वे एव क्रोधमानमायालोभप्रचुरास्तेनाऽभङ्गकम् , तेजोलेश्यायामशीतिः संभवेत , कथम् ? कश्चिदेवो देवलोकात्यच्युत्य तत्रोत्पद्यत एकः, एकसंभवाच्चाशीतिः । 'बितिचउरिंदियाणं जं जत्य सत्तावीस तत्थ अभंगकं' कथम् ! सर्वे एव क्रोधमानमायालोभप्रचुरास्तेन एक एव भङ्गः। यत्राशीतिस्तत्राप्यभङ्गकमाभिनिवोधिकश्रतज्ञाने विनिमुच्य, कस्मात ? एतद्विज्ञानेषु एकेषां स्तोकवाद्विद्यते कश्चित् , क्रोधमानमायालोभप्रचुरास्ते तस्मादशीतिः। पंचेंदिया तिरिया' सर्वे एव क्रोधमानमायालोभप्रचुरास्तेन यत्र सप्तविंशतिस्तत्राभङ्गकम् , यताशीतिः तत्राशीतिरेव, अत्रापि तेऽल्पा एव, अस्पत्वाच्चाशीतिसंभवः । ॥४१॥ For Private & Personal Use Only www.jainelibrary.org Jain Education Inteme
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy