SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ अवचूरिः श्री भगवती सूत्र एते द्वादश १२ । ततः पुनरपि मानमाययोश्चतुर्भङ्गी, मानलोभयोश्चतुर्भङ्गी, मायालोभयोश्चतुर्भङ्गी, १२ । सर्वत्रैकal वचनबहुवचने योज्याः एवमेते चतुर्विंशतिर्भङ्गाः २४ ।। इदानीं त्रिकसंयोगा द्वात्रिंशत्प्रदर्श्यन्ते-क्रोधमानमायाभिरष्टभङ्गी८, क्रोधमानलोभैरष्टभङ्गी८, क्रोधमायालोभैरष्टभङ्गी८, पुनर्मानमायालोभैरष्टभङ्गी८, एवमेते द्वात्रिंशद्भङ्गकाः त्रिकसंयोगे ३२ । इदानी चतुष्कसंयोगे क्रोधमानमायालोभैरेकवचनबहुवचनाम्यां षोडशभङ्गी भवति १६ । एवमेते त्वेकत्रीकृताः सर्वेऽपि अशीतिभङ्गा भवन्ति । असङ्ख्येयसमयाधिकायां बहव उत्पद्यन्ते, तथा च तप्पाउग्गुक्कोसियाए' तन्नारकप्रायोग्या च या उत्कृष्ट स्थितिः यथा रत्नप्रभायां सागरोपमं तस्यां बहव उत्पद्यन्ते, प्रायसश्च बहवःक्रोधप्रचुराः | तस्मात् सप्तविंशतिर्भङ्गसंभवः । इदानीमवगाहना चिन्त्यते- 'केवड़या ओगाहणाणा पण्णत्ता' अवगाहना-शरीरस्य जघन्याङ्गलासङ्ख्येयभागमात्रा, एतस्याः सकाशादन्यः प्रदेशातिरिक्तायामवगाढः, ततोऽपि द्विव्यादिप्रदेशवृद्धया यावत् सङ्ख्येयप्रदेशातिरिक्तायामवगाढं जघन्यावगाहनायां च नारकाः स्तोकास्ते सङ्ख्येयप्रदेशातिरिक्तावगाहनानारकास्तेन तेषामल्पत्वात कदाचित्क्रोधोपयुक्तोऽपि लभ्यते एकः । के (चित् ) मानमायालोभप्रचुराश्चातोऽशीतिः । असङ्ख्येयप्रदेशावगाहनायामुत्कृष्टावगाहनायां च बहवो नारकाः, प्रायसश्च ते क्रोधोपयुक्तास्तेन बहुत्वात्क्रोधप्रचुराणां सप्तविंशतिभङ्गाः। ॥४०॥ For Private Personal Use Only www.jainelibrary.org Jain Education Intem
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy