________________
श्री भगवती सूत्र
Jain Education Inter
क्रोधमानमायालोभेषु सर्वत्र बहुवचनेनैकः १, क्रोधादिषु बहुवचनमेव लोभे त्वेकवचनं द्वितीयः २, क्रोधमानयोर्वहुवचनमेव मायायामेकवचनं लोभे च बहुवचनं तृतीयः ३, पुनर्मायालोभयोरेकवचनमितरयोर्बहुवचनं चतुर्थः ४, माने त्वेकवचनं शेषेषु बहुवचनमिति पञ्चमः ५, मान लो भयोरेकवचनमितरयोर्थ हुवचनमिति षष्ठः ६, मानमाययोरेकवचनमितरयोर्बहुवचनमिति सप्तमः ७, क्रोधे बहुवचनमितरेषु त्वेकवचनमिति अष्टमः ८, एवमेते जघन्यस्थितिस्थायिषु नारकेषु सप्तविंशतिर्भङ्गका लब्धाः -८-१२-६-१-२७ । एतस्यां च जघन्यस्थितौ बहवो नारका सन्ति, तेन क्रोधे बहुवचनं नियमात् ।
इदानीं ये नारकाः जघन्यायां स्थितौ समयाधिकायां वर्त्तमानाश्चिन्तयन्ते यदुक्तं भवति - दशसु वर्षसहस्रेषु समयाधिकेषु वर्त्तमानाः नारकाः कीदृग्विधाः ? इति प्रश्नः, अत्राह
एवंविधस्थितौ अशीतिभङ्गकभाजो भवन्ति । कथं पुनरत्राशीतिः ? आह–प्रायसो नारका न दशवर्षसहस्रस्थितात्पद्यन्ते, समयाधिकायां तूत्पच्या यावत् सख्येयसमयाधिकायाम् तेनाल्पत्वात्तेषां क्रोधमानमायालोभप्रचुरोऽपि भवेदेकः कश्चिदेकसंभवाच्चाशीतिभङ्गसंभवोऽस्ति तस्मादशीतिः । अत्र कथं पुनरशीतिः संभवति १ तत्प्रदर्श्यते— सर्वेऽपि तावत्क्रोधोपयुक्ताः सर्वत्र बहुवचनेन चत्वारः ४, पुनरेकवचनेन चत्वारः ४, एतेऽष्टौ । द्विकसंयोगेन चतुर्विंशतिर्लभ्यन्ते, एकवचनबहुवचनाभ्यां क्रोधमानयोश्चतुर्भङ्गी, क्रोधमाययोश्चतुर्भङ्गी, क्रोधलो भयो चतुर्भङ्गी
For Private & Personal Use Only
अबचूरिः
॥३९॥
www.jainelibrary.org