SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्री भगवती अवचूरि येषां ते किल्बिषिकाः-पापिनः कल्पभाष्याद वगन्तव्याः, तिर्यश्चः पंचेन्द्रिया ये आजीविकाः नाग्न्यधारिणो गोशाल[क] शिष्याः, अभियुञ्जन्ति ये परान् विद्यामन्त्रचूर्णयोगप्रभृतिभिस्ते आभियोगिकाः, स्वलिंग-साधुलिङ्ग रजोहरणमुखवस्त्रिकादि तत्सम्बन्धिनस्तल्लिङ्गिनः परिभ्रष्टसम्यग्दृष्टयः । 'कतिविहे णं भंते असन्नियाउए पन्नते इत्यादि रतिय सन्नियाउए' असंज्ञिनो हि जीवाः पापमुपचित्य प्रथमां पृथिवीं प्रयान्ति तत्रासंज्ञिसता नारकभवयोग्यमायुर्बद्धं यत्तदेवासंज्ञिनारकायुरुच्यते, इतरथा हि नारकाः सर्वे एव पर्याप्तियुक्ता भवन्ति न कश्चिन्मनोविरहितोऽस्ति इत्येवमितरत्रापि योज्यम् । ॥ प्रथम शतके द्वितीयोदेशः ॥ x ॥ अथ प्रथमशतके तृतीयोद्देशः ॥ देशेन यदा हस्तादिना वेदितव्यस्यार्थस्य देशं मोहयति, देशेन हस्तादिना सर्वमेवार्थ मोहयति, सर्वात्मना वा देशमर्थस्य, सर्वात्मना वा सर्वमर्थम् आह सर्वात्मना सर्व कृतमित्येष इष्टः, नशेषाः । भेदसमापना-द्वैधीभावमापन्नाः एवमिदं न चैवमिति खलु समापन्ना नैतदेवमिति 'एवमवधारणे' एवं मनो धारयत् प्रकर्पेण यथैतत्सत्यमिति एवं प्रकुर्वन्मनः यथा भगवद्वचनं सत्यमिति एवं च चिन्तयन्नान्यमतानि सत्यानीति एवं च संवरयन्मनोऽन्यमतेभ्यः । ॥३४॥ Jain Education Inter! For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy