SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र Jain Education Internat स्थिति परिक्षयेऽनन्तरजन्मनि देवतयोत्पत्स्यत इति नान्यद् देवजन्मनः कारणमतोऽसंयतश्चासौ भव्यद्रव्यदेवश्चासंयतद्रव्यदेवः स च मृत्वा जघन्येन भवनवासिषूत्कर्षेणोपरितनग्रैवेयकेषु उत्पद्यत इति । नन्दिमयुक्तं यतः- “तिरियमेवंविधा गैवेज्जसुणमुक्का उववातो अन्न ( दव्व ? ) लिंगेणेति" तदेतत् कथम् ? अत्रोच्यते - एवमेवैतद्यथा विरोधो न भवति तथा श्रूयताम् — तस्या हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्त्तिप्रभृत्यनेकभूपतिप्रवरपूजा - सत्कार - सन्मानदानात् साधूनवेक्ष्य तदर्थं प्रव्रज्याक्रियाकलापानुष्ठानं प्राप्नोतीत्यविरोधः । Sardaar पौनरुत्यं लक्ष्यते यतः सूत्रान्ते वक्ष्यति – “सलिंगीणं दंसणवावण्णाणमिति” उच्यते-योग्यं सूत्रादावुपन्यस्तो जन्मप्रभृत्यामरणान्मिथ्यादर्शनग्रहण विजृम्भणायासितमतिः सर्वदा, पाश्चात्यस्तु प्रव्रज्याकाले सम्यग्दर्शनयुक्त एव क्रियानुष्ठानं प्रति प्रवर्त्तते उत्तरकालं तु दर्शनमोहोदयवशाद्भगवद है त्प्रणीत पदार्थविषयं श्रद्धानमपेतमित्यतो न पुनरुक्त ( ) ति । 'अविराहियसंजमाणं' संयमस्य दशभेदः तस्य विराधना- वितथाचरणं - खंडनं - विनाश इति वास अविरा धितो यैस्ते अविराधितसंयमाः साधवः इतरे तद्विपरीताः संज्ञा-मनस्तदस्ति येषां ते संज्ञिनः, असंज्ञिन: - मनोलब्धिरहिताः, तापसाः - बालतपोविधानभाजः कन्दमूलफलाशिनोऽरण्यनिवासिनश्च, कन्दर्पः परिहासः स येषामस्ति कन्दपिकाः कन्दर्पेण वा चरन्ति इति कान्दर्पिका:- चरकाः कच्छोटकादयः, परिव्राजकास्तु कपिलमुनिमूनवः, किल्बिषं पापं तदस्ति For Private & Personal Use Only अवचूरिः ॥३३॥ www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy