SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ मो भगवतो || अवचूरिः । अथ यत् पञ्चमाङ्गादि सूत्रोपन्यासे चोदितम् , केनाभिप्रायेणेदं सूत्रमुपन्य स्तमिति सोऽभिप्रायो वर्णितः । सूत्रार्थप्रतिपादनेन केवलज्ञानोत्पादनेन सर्वकर्मविगमेन च दर्शित इति इदमेव परमगुरुप्रणीतं वचनमनुसृत्य आचार्य-सिद्धसेनेनेद गाथासूत्रमभिहितम् "उप्पज्जमाणं कालं उप्पण्णं, विगयं विगच्छंतं दवियं पण्णवयंतो तिकालविसयं विसेसेति" इत्यलमतिप्रसङ्गेन प्रकृतमनुत्रियते इति । 'रइयाणं भंते । किं पुन्वाहारिया' सूत्रं ये पूर्व माहृता एकीकृता पूर्वकाले परिणतास्ते ये पुनराहता आहरिष्यन्ते पुनस्तेषां केचित्परिणताः परिणताच ये सम्पृक्ताः शरीरेण सह ये न तावत् सम्प्रच्यन्ते ते परिणस्यन्ते अनाहता ये आहरिष्यन्ते पुनर्न ते परिणताः अनाहतानां सम्पर्को नास्त्यसम्पृक्तत्वात् परिणामाभावः वर्तमानश्च परिणामो निषेध्यते इतरथा तु सन्ति कालेन ये अनाहता न चाहरियन्ते ते अपरिणताः न च परिणस्यन्ते अनाहतत्वात् यतस्तान्नवाहरिप्यन्ति पुनः चिता:-चयं गताः शरीरे उपचितास्त एव बहुशः प्रदेशसामीप्येन उदयप्राप्ते दलिकद्रव्ये अनुदितान् प्रक्षिप्य करणविशेषेण यान पुद्गलान् वेदयते ते उदीरिता भण्यन्ते वेदिता इति प्रतिसमयमनुभूयमानाः स्वेन रसविपाकेनापरिसमाप्ताशेषानुभावा वेदिता इति निगद्यन्ते समयमशेषतद्विपाकहानियुक्ता निजी इति कीर्त्यन्ते-णेरइणोणं भंते कतिविधा पोग्गला भिद्यते इत्यादि कर्मद्रव्यवर्गणामपेक्ष्यैव अणवो बादराश्च कर्मद्रव्यवर्गणापेक्षमेव स्थौल्यं सौक्ष्म ॥२१॥ Jain Education Internet For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy