SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥२०॥ Jain Education International सामान्येनोक्तोऽपि मोक्षचिन्ताधिकारात् मोक्षसाधन एव सर्वकर्म्मदाहा दाहः । यतः तेषु दग्धेषु दहनीयस्याभावात् दाहाभाव इति । अतो विशिष्टविषय एव दाहो भवति । तथा 'म्रियमाणं मृत' मित्येतत्पदम् - आयुकर्मविषयम् । आयुकर्म पुद्गलानां प्रतिसमयं क्षयो मरणम् । अनेन मरणार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाद्भिन्नार्थं पदं भवति । म्रियमाणं मृतमिति वानेन कर्मैवोच्यते । यतः कर्मैव तिष्ठज्जीवतीत्युच्यते कर्मैव जीवादपगच्छन् म्रियत इत्युच्यते । तच्च मरणं सामान्येनोक्तमपि विशिष्टमेवाभ्युपगम्यते । यतः संसारवर्त्तीनि मरणानि अनेकशोऽनुभूतानि । इदं तु अपुनभमरणमन्त्यम् तच्च कर्मक्षय सहकारित्वम् तद्विशिष्टमेव मरणमस्मिन् पदे उक्तमिति । तथा 'निर्जीर्यमाण' मिति तत्पदं सर्वकर्माभावविषयम् । यतः सर्वकर्म निर्भरणं न कदाचिदप्यनुभूतपूर्वं जीवेनेति । अतोऽनेन सर्वकर्माऽनिर्जरणार्थेन पूर्वपदेभ्यो मनार्थाद्भिन्नार्थं पदं भवति । विगमस्य पक्षो - विगमपक्षः । एतानि च पञ्च पदानि विगमाख्यं पर्यायमाश्रित्य प्रवृत्तान्याख्यायन्ते । विगमस्तु अशेषकर्मविगमो विगमो सर्वकर्माभाव इत्यर्थः । स तु एवं लक्षणो विगमः न कदाचिदपि जीवेन प्राप्तपूर्व इति विशिष्टो विगम इष्टः । न विगमः कथं तदर्थत्वात् पुरुषप्रयासस्य एतानि तु एवं विगमार्थानि पदानि भवन्ति यतः छिद्यमानपदे स्थितिखण्डनं भिद्यमानपदेऽनुभाव मेदो विगम उक्त, तथा दमानपदे अकर्मस्वभवनं दाहो विगम उक्तः म्रियमाणपदे आयुष्कर्माभावो विगम उक्तः । तथा निर्जीर्यमापदे अशेषकर्माभावो विगम उक्तः । तस्मादेतानि विगमपक्षस्य प्रतिपादकानीत्युच्यन्ते । For Private & Personal Use Only अवचूरिः www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy