________________
भी भगवती सूत्र
||१८||
Jain Education Internat
'णिज्झरिज्जमाणे २' जरा तु वयोवस्थाहानिः निःशब्दस्तु अतिशयवचनः निःशेषा जर निर्जरा । सा चात्मना हीयमानस्य हानिरित्यर्थः । सा च निर्जरा असङख्येयसमयभाविनी । तस्याः प्रथमसमये निर्जीर्यमाणं तत्समय एव निर्जीर्णं भवति । उपपत्तिस्तु या चलत् चलितत्वे उक्ता सा सर्वेषु पदेषु द्रष्टव्या । एतान्नव प्रश्नान् पृष्टो भगवान् गौतमस्वामिना । तत्राह -
'हन्ता गौतम' इति - हंतेति एवमेतदिति अभ्युपगमवचनम् । एवमेते नव प्रश्ना वर्तमानातीतकालसमानादिकरण्यजिज्ञासया पृष्टाः ।
अथेदानीं किमेते तुल्यार्थी भिन्नार्था १ इति एवं पृच्छन्नाह
'एएणं भंते व पया' इत्यादि, तत्र भगवतः प्रश्ननिर्वचनं - चलच्चलितम्, उदीर्यमाणमुदीरितम्, वेद्यमानं वेदितम्, प्रायमाणं प्रहीणमिति एतानि चत्वारि पदानि एकार्थानि नानाघोषणानि घोपा उदात्तादयः नानाव्यञ्जनानि नानाक्षराणि - इत्यर्थः ।
'उप्पन्नपक्खस्स' उत्पन्नस्य पक्षः उत्पादपक्षस्येत्यर्थः । पक्षस्तु परिग्रहः तमुत्पादाख्यपर्यायं परिगृह्य सर्वेषामेषां पदानामेकार्थकारित्वात् तुल्यकालत्वाच्च एकार्थत्वम् । स पुनरुत्पादाख्यः पर्यायो विशिष्टः केवलोत्पाद एव । यतः कर्मचिन्तायां कर्म्मप्रहाणे फलद्वयं केवलज्ञान मोक्षावाप्ती । तत्रैतानी पदानि केवलोत्पादविषयत्वात् एकार्थानि उक्तानि ।
For Private & Personal Use Only
DO DPIRACYOOOOOOOOOOOOOpiati
अवचूरिः
www.jainelibrary.org