________________
श्री भगवती
| अवचूरिः
तथा द्वितीयादिसमयेष्वपि न लेत् । कोहि तेषामात्मनि रूपविशेषो येन प्रथमसमये न चलितमुररे पुनश्लतीति । अतः सर्वदेवाचलनप्रसङ्गः अस्ति चान्त्यसमये चलनं स्थितेः परिमितत्वात , कर्माभावदर्शनात् । अतः आवलिकाकालादिसमय एव किञ्चिच्चलितं यच्च तस्मिंश्चलितं तन्नोत्तरेषु समयेषु चलति । यदि तु तेष्वपि तदेवोद्यं चलनं भवेत् , ततस्तस्मिन्नेव चलने सर्वेषामुदयावलिकाचलनसमयानां क्षयः स्यात् । यदि तु तत्समयचलननिरपेक्षाणि अन्यचल नानि स्वचलनरूपाणि भवन्ति, तत उत्तरचलनानुक्रमणं युज्यते । अत एव वर्तमानमेव तच्चलनमतीतं भवति । तथा
'उदिरिजमाणे उदीरणादि अनुदयप्राप्तं चिरेण आगामिना कालेन यद्वेदयितव्यं कर्मदलिक तस्य विशिष्टेनाध्यवसायविशेषे करणेनाकृष्य उदये प्रक्षेपणमुदीरणा सा चासङ्ख्येयसमयवर्तिनी तथा च उदीरणया उदीरणाप्रथमसमये एव उदीयमाणं कर्मोदीरितं ।
तथा-'वेदयमानं २' वेदनं तु कर्मण उपभोगः अनुभवतः, तच्च वेदनं स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन वोदयमुपनीतस्य भवति तस्य तु वेदना कालस्यासङ्ख्येयसमयत्वात आद्यसमये वेद्यमानमेव वेदितं तथा ।
'प्रहीजमाणे२' प्रहाणं तु जीवप्रदेशैः सह संश्लिष्टस्य कर्मणः तेभ्यः पतनं प्रहाणं । एतदपि चासङ्ख्येयसमयपरिमाणमेव । तस्य तु प्रहाणस्यादिसमये प्रहीयमाणं प्रहीणं ।
तथा 'छिजमाणे२' छेदनं तु कर्मणः दीर्घकालवत्तिनीनां स्थितीनां हस्वकालया स्थित्या प्रवर्तनकरणं छेदनं ।
॥१६॥
Jain Education Intem
For Private & Personel Use Only
www.jainelibrary.org