________________
श्री भगवती
बीजकम
७ नारकी नरके उत्पद्यते । देशतः सर्वतो वा । एवमाहारोदने । दण्डके च । जीवो विग्रहगतिसमा
पन्नोऽन्यो वा दण्डकेष्वयं प्रश्नः । देवः च्यवनकालेनाहारका पश्चाबाहारकः यत्रोत्पद्यते । तदायुर्वेदयते जीबो गर्भगतः सेन्द्रियो वा सशरीरी वा कि आहारयति कवलिकाहारो गर्भ स्यान वा । उच्छ्वासनिच्छ्वासो नीहारो वा स्यात् । स जीवो नारके स्वर्ग वा उत्पद्यते । स किंसंस्थानः । ततः सद्वर्णो वा दुर्वणों वा। एकान्तबालो मनुष्यः एकान्तपण्डितो वा घालपण्डितो वा । किमायुः प्रकरोति । मृगहन्तानरः कतिक्रियः अग्न्यारम्भकश्च । एको मृगजिघांसुः भन्यस्तच्छिरश्छेत्ता । द्वयोः को बन्धः षण्मासान्तमृतौ पञ्च क्रियाः द्वयोः सङ्कामकारिणोरेको जयति । परः पराजीयते । जीवाः संसारिणः सिद्धाश्च । सवीर्या वा अवीर्याः । एवं वण्डके प्रश्नः । मीवाः कथं गुरुत्वं लघुत्वं वा लभन्ते । कथं भवं दीर्घ ह्रस्वं वा कुर्वन्ति । नारकान्तरावकाशा: पृथिव्यश्च लघुका गुरुका वा दण्डकेऽयं प्रश्नः । धर्मास्तिकायारिषु च पुद्गलाः । सलेश्या जीवा मनोवाक्काययोगिनः सर्वद्रव्याणि पर्यायाः कालश्च गुरुलंघुर्वा । भमणानां लघुत्वं श्रेयः क्रोधाद्यभावश्च ।
||२.६॥
Jan Education Intemanon
For Private Personel Use Only
www.jainelibrary.org