SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ मी नगपती सूत्र ॥१४॥ Jain Education Intern MpDOOD एवमभिवन्द्य प्रणम्य च एवमुक्तवान् इति तत्यदुक्तं पूज्यै: - चलन् चलित इत्यादि । 'णूण' मिति एवमर्थे, तत्र एवं व्याख्यातत्वात् । भंते इति - आमन्त्रणवचनं, हे भदन्त ! आदित आरभ्य यावद्भन्ते इति । अयमुपोद्घातग्रन्थः भगवता सुधर्मस्वामिना पञ्चमाङ्गसम्बन्धार्थमभिहितः । अथेदानीमनेन सम्बन्धेनायातस्य पञ्चमागस्य इन्द्रभूतिस्वामिने पृच्छते भगवदईतोक्तस्यार्थस्य सुधर्म स्वामिना जम्बूनामस्वामिने अनुकथनं कुर्वता याऽर्थव्याख्या प्रज्ञापिता तस्यां तस्य पञ्चमाङ्गस्य आदिसूत्रमिदं - 'चलमाणे चलिते' इत्यादि । अथ केनाभिप्रायेण भगवता सुधर्मस्वामिना पञ्चमस्याङ्गस्य अर्थानुकथनं कुर्वता एवमर्थवाचकं सूत्रमुपन्यस्तं नान्यानीति । अत्रायमभिप्रायः - इह चत्वारः पुरुषार्था:-धर्मार्थकाममोक्षाः तेपामपि मोक्षः पुरुषार्थो मुख्यः निरतिशत्यत्वात् । तस्य तु मोक्षस्य साध्यस्य साधनानां सम्यग्दर्शनादीनां साधनत्वेनाव्यभिचारिण[[]मुभय नियमशासनाच्छानमिष्यते सद्भिः । उभयनियमस्तु सम्यग्दर्शनादीनि मोक्षस्यैव साध्यस्य साधनानि नान्यस्यार्थस्य । मोक्षश्च तेषामेत्र साधनानां साध्यो नान्येषामिति । तस्य च मोक्षस्य सम्बन्धित्वात् सम्बन्ध्यन्तरं बन्धः । स च मुख्यः कर्मभिरात्मनः सम्बन्धः । तेषां तु कर्मणां प्रहाणे अयमनुक्रम उक्तः - 'चलमाणे चलिते' इत्यादि चलितमिति स्थितिचयाद्यदुदितं For Private & Personal Use Only अवचूरिः www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy