________________
मी भगवती
अवचूरिः
" प्रदीप्तदीपाभ(म ?)प्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरीम्" अत्राप्रवृत्तभास्करत्वं हेतुः, प्रदीप्तदीपत्वादीनाम् , तथा संजातश्रद्धः संशब्दः प्रकर्षादिवचनः, यथा
'सञ्जातकामो चलभिद्विभृत्यां, मानात् प्रजाभिः प्रतिमाननाच' ऐश्वयें जातेच्छ कार्तवीर्ये इति ।
अपरस्त्वाह-जाता श्रद्धा यस्य प्रष्टुं जातश्रद्धः। कथं जातश्रद्धो यस्माज्जातसंशयः, इदं वस्त्वेवं स्यादेवं वेति कथं संशयोऽजनि ! यस्मात् प्राक् कुतूहला, कथं नामास्यार्थमेव भोत्स्य इति । एवमुत्पन्नसञ्जातसमुत्पन्नप्रश्नाः, अवग्रहेहापायधारणामेदेन वाच्या इति ।
___उढाए उट्टे त्ता]त्ति उत्थानमुत्था ऊचं वर्त्तनम् , तया उत्थया उत्तिष्ठति । उस्थित्वा-उत्थाय क्त्वा-प्रत्ययेन निर्देशः क्त्वाप्रत्ययस्य च समानक कयोः पूर्वकालायां क्रियांयां विधानम् । तत्र प्रथमा क्रिया ऊर्ध्व वर्त्तनम् उत्तरकालानुक्रिया भगवत्समीपमुपगच्छति ।
जेणेवेत्यादि-प्राकृतप्रयोगात् सप्तम्यर्थे तृतीया । यस्मिन्नेव दिग्भागे भगवान वर्तते तस्मिन्नेवोपागच्छति, उपगम्य, तिखुत्तो चित्रिकृत्वः-त्रीन् वारान , आदक्षिणतः प्रदक्षिणां करोति, दक्षिणहस्तादारभ्य प्रदक्षिणां यावद्दक्षिण एव, वन्दते वाचा स्तौति नमस्यति कायेन प्रणमति । १. प्रवृत्तदीपामिति टीकायां दृश्यते ।
॥१३॥
For Private Personal use only
Jain Education Internet
www.jainelibrary.org