SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ||१२|| Jain Education Internatio विचयाख्ये ध्येये स्मृतिसमन्वाहारं कुर्वन्, ध्यानकोष्ठमुपगतः । ध्यानमेव कोष्ठो ध्यानकोष्ठ, तमुपगतस्तस्मि अनुप्रविष्टः । 'संनमे णं' इत्यादि-संयमेन संवरेण तपसा च ध्यानेन आत्मानं मावयित्वा सन् विहरति - तिष्ठतीत्यर्थः । सते णं स इत्यादि-तत इति आनन्तर्यार्थे तस्माद् ध्यानादनन्तरम्, णमिति वाक्यालङ्कारार्थः । स इति पूर्व प्रस्तुतप्रत्यवमर्शार्थः, तस्य तु सामान्योक्तस्य विशेषावधारणार्थम् गौतम इति । स गौतमः कथं वर्त्तते इत्याकांक्षानिवारणार्थमाह जायसढे इत्यादि - जाता - प्रवृत्ता, श्रद्धा-इच्छा अस्येति जात श्रद्धः । क्व १ वच्यमाणानां पदार्थानां तत्वपरिज्ञाने, तथा जातः संशयोऽस्येति जातसंशयः । संशयस्त्वनिर्द्धारितमर्थज्ञानमुभय वस्त्वंशात्र लेहितया प्रवृत्तम्, स तु एवं तस्य भगवतो जातः, यतो भगवता हि बाग्योगेनार्थ निर्दिशता चलन् चलित इत्याद्यर्थो निर्दिष्टः, स च य एव चलन् स एव चलित इति निर्दिष्टः एकार्थविषयावेतौ निर्देशौ चलन्निति च वर्त्तमानकालनिर्देशः, चलित इति तु अतीतकालनिर्देशः, तत्र संशयः कथं स (य) एवार्थो वर्त्तमानः स एवार्थोऽतीतो भवति, विरुद्धत्वादनयो: कालयोः तथा जातकुतूहल: जातं कुतूहलं यस्य स जातकुतूहल: - जातौत्सुक्य इत्यर्थः । कथमेतान् पदार्थान् भगवान् प्रज्ञापयिष्यतीति, तथा उत्तमश्रद्ध इति प्राग्भूता श्रद्धा भूतेति उत्पषभद्धः । अथ उत्पन्नश्रद्धत्वस्य इतिश्रद्धत्वस्य च कोऽर्थमेदः न कश्चित् । अथ किमर्थं प्रयुज्यते - हेतुत्वप्रदर्शनार्थम् हेतुश्च अलङ्कारः यथाह— For Private & Personal Use Only ODD DDD DD¤¤¤¤¤.. भवचूरिः www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy