________________
श्री भगवती
सूत्र
Jain Education International
शीलं यस्य स घोरब्रह्मचर्यवासी ।
१ उच्छूदशरीर इत्यादि-उत्सृष्टम् - उज्झितम्, उज्झितमिवोज्झितं शरीरम् संस्कारं प्रति निस्पृहत्वात्, उज्झितं । तपोविभूति-जनितं यत्तस्य तेजस्वित्वं भास्करविम्बमिव दुर्निरीक्ष्यम्, तस्वेन विपुलमपि सत् संक्षिप्तम्, येन दृश्योंभूतः, अतः उज्झितशरीरश्चासौ संक्षिप्तविपुलतेजोलेश्यश्च स एवंगुणविशिष्टो भगवान्, भगवतः अदूरसामन्ते चतुदेश पूर्ववित्, चतुर्ज्ञानी, सर्वाक्षरसन्निपाती - द्विचत्वारिंशदक्षराणां सन्निपातानां २ मेदा - एक द्वि-त्रयादयः तद्विज्ञानयुक्तोविनयराशिरिव साक्षाच्छिष्याचारत्वाच्च नातिदूरे नातिसन्निकृष्टे देशे स्थितः, कथम् ?
उद्धर्द्धजाणू इत्यादि-शुद्धपृथ्व्यासनवर्जनात् औपग्रहिकनिपद्याभावाच्च उत्कटुकासनः ऊर्ध्वं जानुनी यस्य स ऊर्ध्वजानुः ।
अधांसिरे (ति)- अधोमुखः, नोर्ध्वं तिर्यग् अधो विक्षिप्तदृष्टिः । किन्तु नियतभूभागनियतदृष्टिः ।
झाणकोडोवगते (ति) - यथा कोष्टके धान्यं प्रक्षिप्तं न विप्रसृतं भवति, एवं स भगवान् ध्यायन् आसनप्रत्याहरणधारणाद्यनुक्रमेण इन्द्रियमनांसि विषयेभ्यः प्रत्याहृत्य, एकाग्रतया चिन्तानिरोधं कृत्वा आज्ञा-पाय- विपाक-संस्थान
१. उच्छूढसरीरसंखित्तविरळतेयले से इति समस्तं पाठं गृहीत्वा अवचूरिकारः व्याख्याति । २. संयोगानामित्यर्थः ।
For Private & Personal Use Only
अवचूरिः
॥ ११॥
www.jainelibrary.org