SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥१५६॥ pootopoor Jain Education International अकषायः संसरति संसारे तस्मादप्रथमः । अकषायभावो जीवमनुष्याणां स्यात्, यस्य प्रथमश्रेणीलामः तस्य प्रथमोSEषायामः, यस्य पुनर्द्वितीय श्रेणिलामः तस्याऽप्रथमः, सिद्धानां सिद्धः अकषायभावः प्रथमः । जीवानां ज्ञानित्वं केषांचिदनादिः यथा येषां सम्यक्त्वं मिध्यादृष्टीनां सम्यक्श्वगतानां सादिस्तस्मात्स्यात् यावद्वैमानिका), सिद्धाः केवलज्ञानमावेन प्रथमा: ज्ञानचतुष्के कचित्प्रथमः कचिदप्रथम इति पृथक्त्वे प्रथमाश्व केवलज्ञानिनः प्रथमास्तेन मावेन । 'अण्णाणी नो अण्णाणी' अज्ञानिभावेन प्रथमाः सयोगी जीवः सयोगिभावेनानादित्वादप्रथमः, अयोगिजीवमनुष्याः सिद्धाः अयोगिभावेन प्रथमाः । साकारोपयुक्ताः जीवसिद्धाः दृष्टव्याः । सवेदका सवेदकभावेनाऽप्रथमाः अवेदकस्य संसृतिरेव नास्ति एवं यावन्नपू सको वेदः यथा कषायी शरीरभावेनाऽप्रथमः, अशरीरिणः संसाराऽभावात् । आहारकशरीरी स्यात् - पस्य प्रथमलामः आहारकशरीरस्य स प्रथमः, यैर्लब्धमन्यदाऽपि अप्रथमाः । पञ्चपर्याप्तिभिः पर्याप्ताः पंचभिरपर्याप्तिमिरपर्याप्तकाः अप्रथमाः जीवस्याऽनादित्वादस्य भावस्य । 'जीवे णं मंते १ जीवे भावेणं किं चरिमा अचरिमा' इति प्रश्नः - किमयं जीवः जीवमावे न विनाशं यास्यति इति चरमः, चरमस्य वा जीवत्वमाहोश्वित् पुनरपि जीवभावमनुभविष्यतीत्यचरमः, अत आह— अचरिमो न चरमः । नारकाः नारकभावेन किं चरिमा स्यात् १ ( स्युः ) यो हि नारको नारकत्वादुद्वर्श्य मनुष्यगतिमासाद्य सिद्धिं यास्यति न पुनर्नरकगतिम् स चरिमो नारकः यः पुनरपि यास्यति सोऽचरिमः एवं यावद्वैमानिकाः । सिद्धः सिद्धिभावेनाऽचरमः, न हि सिद्धस्य सिद्धत्वं विनाशमुपगच्छतीति । For Private & Personal Use Only 0 000.000 ̄ ̄ ̄ ̄ ̄ ̄.. अवचूरिः www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy