________________
श्रीभगवती |
सूत्र
जपचूरिः
अनाहारकभावेन प्रथमः शेषसत्त्वाः अप्रथमाः पूर्वमपि अनाहारका अभूवन विग्रहकाले तस्मात् स्यात् । नारकादि यावद्वैमानिकाः तावप्रथमाः अनाहारकमावेन सिद्धाः प्रथमाः । जीवाणं अनाहारकत्वेन प्रथमाश्याप्रथमाश्च सिद्धा अनाहारकभावेन प्रथमाः, शेषाः अप्रथमाः । भव्याऽभव्यभावेनाप्रथमाः नाधुना भव्यभावो जात इति अनादित्वाद्भव्यभावस्य अप्रथमाः एवमभव्य त्वमपि । 'जो मव णो अभव' सिद्धास्ते हि सिद्धभावेन प्रथमाः । [संज्ञिभावेनाऽप्रथमाः अनेकशः संज्ञित्वं लब्धमिति, एवमसंज्ञिनोऽपि 'नो सण्णी नो असण्णी' सिद्धजीवमनुष्या अनेन भावेन प्रथमाः। सलेश्या अलेश्या, सलेश्यामावेन यावच्छुक्ललेश्याभावेन प्रथमाः,* ] नहि अलेश्याः पूर्वमभूवन् जीवास्ततस्सलेश्या जाता इति अप्रथम, अश्या: पुनर्जीवमनुष्यसिद्धाः प्रथमाः । सम्यग्दृष्टिजीवः [पु० नास्ति] सम्यग्दृष्टिभावेन स्यात्, सम्यग्दृष्टिः केवली सम्यग्दृष्टिजीबेन प्रथमः, सम्यग्दर्शनं पुनर्नकस्यचिद् अनादिरेव, सिद्धः सम्यग्दृष्टिभावेन प्रथमः । मिथ्यादृष्टिभावोऽनादिः तस्मादप्रथमः, सम्यग्मिथ्यादृष्टिः स्यात् यस्मान्मिथ्यादृष्टः सम्यक्त्वमा गतम्य सशेषेषु मिथ्यात्वपुद्गलेषु भवति तच्च केनचित् प्रथममेव लब्धं, कश्चिद् बहुशो लब्धमिति स्यात् । जीवः संयतभावेन स्यात् कस्पचित् प्रथमलाम एव संयतस्वस्य भवति केनचिद् बहुशो लन्धमिति स्यात् , मनुष्याणामपि जीवस्याऽसंयतमावो प्रथमः, संयतासंयतभावः स्यात् य दुक्तम्-श्रावकस्य च कस्यचित्यमा कस्यचिदप्रथमः, नोसंयत नोअसंयतभावः प्रथमो जीव सिद्धानाम् । सकषायभाषो यावलोमकषायभावः अप्रथमः, नहि | * पु० अधिकम् ॥
Jain Education Interna
For Private Personal Use Only
www.jainelibrary.org