________________
भीमगवती
अवचूरिः
वीयं भवति ७। यस्य कलायात्मा तस्य योगात्मा नियमात अत्र हि अयोगिनः कायाः योगा-मनोवाक्काया न सन्ति, यस्य योगात्मा तस्य कषायात्मा स्यात् , केवलिनो वाक्काययोगात्मा विद्यते न च कषायात्मा तस्मात् स्यात् ।
यस्य कषायात्मा तस्योपयोगात्मा नियमात् नहि कषायवत उपयोगमन्तरेण कषाय सम्भवः तस्मानियमः, यस्य पुनरुपयोगात्मा तस्य कषायात्मा स्यात केवलिनः सिद्धस्यास्त्युपयोगात्मा न च कषायात्मा, शेषसत्यादी. नामस्ति तस्मात्स्यात् ।
यस्य कषायात्मा तस्य ज्ञानात्मा स्यात् यस्य कलायात्मा तत्राज्ञानमस्ति येषामिति ज्ञानं च स्यात् , | यस्य र ज्ञानात्मा तस्य कषायात्मा स्यात् केवलिनः सिद्धस्य च ज्ञानित्वेऽपि कषायात्मा नास्ति, अन्येषां च ज्ञानिनामस्तीति स्यात् ।
यस्य कषायात्मा तस्य दर्शनात्माऽवश्यं यस्य दर्शनात्मा तस्य कषायात्मा स्यात् यथा केवलिनः सिद्धस्य | च केवलं दर्शनात्मा न च कपायात्मा विद्यते, अन्यदर्शनिनां कपायात्मा तस्मात् स्यात् ।
यस्य कषायात्मात्मा तस्य चारित्रात्मा स्यात् कथम् ? कषायश्चारित्री वा, अस्यात्र संयतश्चारित्री,
॥१३॥
Jain Education Interi
For Private & Personel Use Only
www.jainelibrary.org