________________
श्रवचूरिः
भी भगवती
सूत्र
आहारकशरीरं गृह्णाम ति प्रथमसमये सर्वबन्धक एव, इति एव कृत्वा सर्ववन्धान्तरमन्तमुहृतम् । उक्कोसं वि निमुच्यते आहारकशरीरमनन्त कालो लभ्यते । सव्वथोवा आहारकस्तथैव १ भावनीयम् । अबंधका अनन्ता ( आहारक शरीरं मनुष्याणां, तत्रापि संयतानां भवतीति शेषकालं सर्व एवाबन्धकाः अनन्तासक इति अनन्तगुणाः । तैजसशरीरवन्ध अमव्यानामनाद्यपर्यवसितम्, मव्यानामनादिसपर्यवसितमिति अस्यान्तरं नास्ति यस्मात् जीवः तेनाऽविनिमुक्त एव सदा संसारस्थः । सर्वस्तो का अबन्धकाः देशबन्धका अनन्तास्तस्य सर्वबन्ध एव नास्ति, इति सर्व एव संसारस्थाः देशबन्धकास्तेनानन्ताः । नहि एकसमये औदारिकवैक्रिययोर्वन्धो विद्यते, इति कृस्वा नोबन्धक एव अबन्धः | एवमाहारकस्य । तैजसस्य पुनः सदैवाविरहितत्वाद् बन्धको देशबन्धकेन, सर्ववन्धो नास्ति इति । एवं कम्मग्गसरीरस्स तेजस इव . औदारिक शरीरस्य बन्धो वा भवति अबन्यो वा, विग्रहस्य औदारिकस्याऽबन्धका अविग्रहस्थो बन्धकस्ततः परं देशवन्धकः, अतोऽभिधीयते । एवं क्रियमाहारकं च । कार्मणशरीरस्य पुनः सर्वदा देशबन्धकं चेति ।
सर्वस्तोका आहारकस्य सर्वबन्धकाः यस्मात् प्रतिपद्यमानकाः स्तोकाः,१ । ( देशबन्धकाः) पूर्वप्रतिपन्नाः पुनर्वहव इति संख्येयगुणाः २ क्रियशरीरिणो बहवः सत्त्वा: आहारकशरीरिणः स्तोकाः यस्मात तस्मादसंख्येय
टी-१ पु. आहारकशरीरं मनुष्याः तत्र तेऽपि संयतानां भवतीति शेषकालं सर्व एव बन्धकाः ।
॥१०७॥
-
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org