________________
श्रीभगवती
सूत्र
अवचूरिः
उरालिय सरीरसव्वबंधो वि' यथा अपूपः प्रथमसमयप्रक्षिप्तो घृतादि गृह्णाति शेषेषु समयेषु गृहणाति विसृजति च | एवमयमौदारिकशरीरी यदा शरीरकं विहाय प्राक्तनं इदानीमन्य [ २ ] गृहणाति तदा प्रथमसमये औदारिकशरीरग्रहणयोग्यान पुद्गलान् तस्मिन् स्थाने सर्वान् गृहणाति, ततः परं गृहणाति च विसृजति च, तस्मादौदारिकशरीरिणां सर्वदेशबन्धः इयमपि विद्यते प्रथमसमये सर्वबन्धः, उत्तरसमयेषु देशबन्ध इति, उरालियसरीरप्पयोगबंधेणं कालतो केवचिरं होति ! सव्वबंधो एगसमयं देसबंधो जहण्ण मेगसमइयं भाव्यते । पञ्चेन्द्रियशरीरायुर्वा |
औदारिकशरीरी सन् यदा वैक्रियं प्रतिपन्नस्तद्विमुच्य यदा पुनरौदारिक गृहणाति तदा प्रथम सर्वबन्धं कृत्वा द्वितीय समये देशबन्धको भृत्वा म्रियते यदा तदा देशबन्धकस्य जघन्यत एकसमयः । 'उक्कोसेणं तिन्नि पलितोवमाई' कथम् ! यस्मादौदारिकशरीरिणां त्रिपल्योपमा स्थितिः, तेषु च त्रिपल्योपमेषु प्रथमसमये सर्वबन्धक एवेति, 'एगिदिय ओरालियसव्वबंधं एग समयं देसबंधो, जहन्नेणं एगं समयं' कथम् ? वायोरौदारिकशरीरिणो वैक्रियं गतस्य पुनरौदारिकप्रतिपत्तौ सर्वबन्धको भूत्वा देशबन्धकश्चैकं समयं भूत्वा म्रियते यदा, तदा देशबन्धः, जहन्नेणं समयं , पृथिवी कापिकं प्रति यस्मादेकेन्द्रियाणामियं जघन्या स्थितिः 'उक्कोसेणं बाबीसं वाससहस्साई टी०-१ पु० समयान्न्यूनानि त्रीणि पल्योपमानि परतो यदि देवेषु उत्पद्यते तदा वैक्रियशरीरस्य सर्वबन्धको भवत्यादौ
. यदापि औदारिकशरीरत्वेनोत्पद्यते तदा सर्वबन्धक एवेति ।
॥९८॥
Jain Education International
For Private Personel Use Only
www.jainelibrary.org