________________
श्रीगुणचंद महावीरच० ६ प्रस्ताव ॥२०९॥
| मद्यमांसनिशाभो. जनदोषा
आकाशगामिनो विप्राः, पतिता मांसभक्षणात् । विप्राणां पतनं दृष्ट्वा, तस्मान्मांसं न भक्षयेत् ॥ ८॥ शुक्रशोणितसंभूतं, यो मांस खादते नरः । जलेन कुरुते शौचं, हसंते तं हि देवताः ॥९॥ श्रूयन्ते यानि तीर्थानि, त्रिषु लोकेषु भारत! । तेषु प्राप्नोति स स्नानं, यो मांस नैव भक्षयेत् ॥ १०॥ नाग्निना न च सूर्येण, न जलेनापि मानव!। मांसस्य भक्षणे शुद्धिः, एष धर्मो युधिष्ठिर!॥११॥ . किं लिङ्गवेषग्रहणैः?, किं शिरस्तुंडमुण्डनः? । यदि खादन्ति मासानि, सर्वमेव निरर्थकम् ॥ १२॥ यथा वनगजः स्नातो, निर्मले सलिलार्णवे । रजसा गुण्डते गात्रं, तद्वन्मांसस्य भक्षणम् ॥ १३॥ प्रभासं पुष्करं गङ्गा, कुरुक्षेत्रं सरखती । देविका चन्द्रभागा च, सिन्धुश्चैव महानदी ॥ १४ ॥ मलया यमुना चैव, नैमिषं च गया तथा । सरयू कौशिकं चैव, लौहित्यं च महानदम् ॥ १५॥ एतैस्तीथैर्महर्द्धिक्यैः, कुर्याचैवामिपेचनम् । अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर! ॥ १६ ॥ यो दद्यात्काञ्चनं मेलं, कृत्वां चैव वसुन्धराम् । अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर!॥ १७॥ हिरण्यदानं गोदानं भूमिदानं तथैव च अभ०॥ १८ ॥ कपिलानां सहस्रं तु मासे मासं गवां ददे। अभ० ॥१९॥ इय लोइयसत्थेसुवि परिहरणिज्जत्तणेण निटिं। मंसं महाविसंपिव किं पुण लोउत्तरे समए? ॥२०॥ जह मज्जमंसविरई बहुदोसत्तेण होइ कायवा। तह रयणिभोयणपिवि परिहरणिजं सयन्नहि ॥२१॥
॥२०९॥
Jain Educati
onal
For Private Personel Use Only
Mainelibrary.org