________________
तथा-श्री शत्रुञ्जयतीर्थमभव्या न स्पृशन्तीत्यक्षराणि क्व सन्तीति ! प्रश्नोऽत्रोत्तरं-श्रीशत्रुञ्जयमाहात्म्ये सन्ति, यथा, " अभव्याः । पापिनो जीवा, नामुं पश्यन्ति पर्वतम् । लम्यते चापि राज्यादि, नेदं तीर्थ हि लभ्यते ॥ १॥" इति ।। १९९ ।।
तथा-बलिचञ्च। राजधानी ईशानेन्द्रक्रुधा छारागारमुर्मुरभूताऽभूत्तत्सत्यमुत साक्षाच्छाराङ्गारभूता तत्सत्यमिति ! प्रश्नोऽत्रोत्तरंभूतशब्दस्योपमावाचकत्येन दिव्यानुभावतो बलिचञ्चाराजधान्यङ्गारादिसदृशी जातेति सम्भाव्यते ॥ २० ॥
अथ पण्डितकनककुशलगणिकृतप्रश्नास्तदुत्तराणि च, यथा-श्रीभद्रबाहुस्वामिना नवमपूर्वादुद्धृतः श्रीकल्पः श्रीपर्युषणापञ्चदिनी यावद्वाच्यमानोऽस्ति, श्रीसुधर्मस्वामिप्रभूत्याचार्याणां तु | पर्युषणासमये कि शास्त्रं वाच्यमानमभूदिति ? प्रश्नोऽत्रोत्तरं-सुधर्मस्वामिप्रमुखा नवमपूर्वगतमेवैतदध्ययनं यथावस्थितं व्याख्यातवन्त | इति सम्भाव्रते ॥ २०१॥
तथा-गोमहिप्यजाप्रभृतीनां सर्पिष एवं क्षारमिष्टादिपयसां गोमहिष्यादितक्राणा चैकद्रव्यत्वमुत भिन्नद्रव्यत्वं वा ?, श्राद्धविद्धौ वित्थं प्रोक्तं- यत् पृथक्पृथक्नामास्वादवत्तेन द्रव्यत्वं । परं तेषु तक्रादिषु पृथक् पृथक् आस्वादत्वं न तु नामत्वमतस्तत्र कया रीत्या द्रव्यसङ्ख्या गण्यत इति ? प्रश्नोत्रोत्तरं-गोमहिप्यजाप्रभृतीनां सप्पिषः क्षारमिष्टादिपानीयानां च गोमहिष्यादितक्राणां चैकद्रव्यत्वं गण्यते, यत उभयभिन्नत्वे सति भिन्नद्रव्यत्वं स्यादिति ॥ २०२॥
तथा-लपनश्रियां विकृतिद्वयं घृतगुडरूपं वा किमुत कटाहविकृतिरूपता गण्यत इति ? प्रश्नोत्रोत्तरं-लपनाश्रयमाश्रित्य योगविध्यनुसारेण लपनश्रीद्धिप्रकारा-एका विकृतिरूपा परा निर्विकृति रूपा च, तत्र विकृतिरूपायां तु घृतगुडरूपविकृतियुग्मं गण्यते ॥ २०३ ॥
in Edat an
asal
For Private & Personel Use Only
finelibrary.org