SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ | पाथसि पूतरकादिसद्भाव इव मध्वादिमध्ये रसजजीवसम्भवेऽपि तस्य सचित्तता नोच्यते, तत्सङ्घद्दे तथा पर्युषितपूपिकादिसङ्घ च यतीनामाहाN| रादि गृहीतं न शुद्धयति, तज्जीवानां बाधासम्भवात्प्रसङ्गपरिहारार्थत्वाचेति ॥ १७६ ॥ तथा अन्तर्वाच्यादिष्वेकयोजनप्रमाणं सुघोषाघण्टामानमुक्तं, पृथक् पृथक् पत्रेषु च 'बारसजोअणपिहलेत्यादि' सुघोषामानं दृश्यते, तेन | महाग्रन्थेषु किं मानमुक्तमस्तीति प्रश्नोऽत्रोत्तरं-जम्बूद्वीपप्रज्ञप्त्यादिग्रन्थेषु एकयोजनं सुवोषाघण्टामानमस्तीति ॥ १७७ ॥ तथा-उपधानमध्ये मुखपोतिकाविस्मरणे सति शतहस्तगमने भुक्तच्छण्डने रजन्यां देहचिन्तोत्थानादिषु च समानैव दिनवृद्धिन्यूनाधिका वा ? तस्यां च दिनवृद्धौ सत्यामुपधानमध्ये एव दिनानि कार्यन्ते ? किंवा कारणे उपधानाबहिरिति, प्रश्नोत्रोत्तरं-उपधानविधिषु शतहस्ताहिर्मुखपो- IN |तिकाविस्मरणे भुक्तच्छण्डनादिषु च सामान्यतो दिनवृद्धिरुक्ताऽस्ति, तथैव च कार्यते, तथा तानि वृद्धिदिनानि प्रायेणोपधानमध्य एव कार्यन्ते, महाकारणे तु नैकान्त इति ॥ १७८ ॥ तथा—उपधानालोचनापौषधा उपवासादितपस्सहिता विकृत्येकाशनसहिता वा दीयन्ते ? तेऽपि च केवलदिवसपौषधा अहोरात्रपौषधा | वेति ! प्रश्नोऽत्रोत्तरं-उपधामालोचनापौषधा उपवाससहिता अहोरात्ररूपा एव दीयन्त इति ॥ १७९॥ तथा-जम्बुद्वीपमहाविदेहे चतुर्ष विजयेषु विहरमाणजिनचतुष्टयसत्त्वे तत्रैवान्यविजयेषु साम्प्रतीनकालेऽन्यजिनानां जन्मकुमारावस्थादि | सम्भाव्यते नवेति !, विहरमानपदवाच्या वर्तमाना एव जिनाः समवसरणस्था एव वेति !, महाविदेहक्षेत्रं च सम्पूर्णमपि कदाचित् केवलिपर्यायोपेतजिनविरहितं सामान्यतः तीर्थकरसत्तया विरहितं च भवति नवेति ? प्रश्नोऽत्रोत्तरं-साम्प्रतीनकाले विहरमाणजिनानधिष्ठितविजयेषु परेषां तीर्थकृतां | Jain Education Hall For Private Personel Use Only
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy