________________
सेनप्रभे २ उल्लासः
॥ ३८ ॥
Jain Educatio
तथा -- श्रीभगवत्युक्ता एकपुत्रस्य नवशतपितरः कथं सम्भवन्तीति प्रश्नोऽत्रोत्तरं - - द्वादशमुहूर्त्तान् यावद्वीर्यमविनष्टं स्यात्तावत्कालावधि नवशतमितवृषभादिभिर्भुक्ते गवादौ यो गर्भ उत्पद्यते स तावतां पुत्रो भवतीति ॥ १७२ ।।
तथा - षड्विकृतिभोक्तुः श्रद्धालेोर्विकृतिप्रत्याख्यानं स्यान्नवेति, प्रश्नोऽत्रोत्तरं - षडूविकृतिभोगेऽपि विकृतिप्रत्याख्यानं भवति यतः श्राद्ध विधावभक्ष्यविकृतिसम्बन्ध्यपि तदुक्तमस्तीति ॥ १७३ ॥
तथा—सामायिकमध्ये सामायिकग्रहणे यावन्त आदेशाः पूर्वसामायिके मार्ग्यन्ते, तावन्त एवाग्रेतने ? किंवा न्यूनाः ?, न्यूनत्वे च सामायिकवाद्दिनपौषधे गृहीते तन्मध्ये रात्रिपौषधग्रहणेऽपि पूर्णादेशमार्गणं ? किंवा न्यूनादेशमार्गणमिति, प्रश्नोऽत्रोत्तरं - सामायिकमध्ये सामायिकग्रहणे सामायिकदण्डकोच्चारणानन्तरं बइसणइ ठाउं इत्यादेशो मार्ग्यते दिवसपौषधमध्ये रात्रिपौषधग्रहणे च बहुवेल करस्युं इतिपर्यन्ता आदेशा मार्ग्यन्ते, प्रतिलेखनादेशास्तु सान्ध्यप्रतिलेखनापाठनावसरे मागितत्वात्पुनर्न मार्ग्यन्त इति ॥ १७४॥
तथा -- यतिना सचित्तपानीयपरिहारिणा श्रावकेण वा प्रभाते नमस्कारसहितादिकालमात्र प्रत्याख्याने कृते सन्ध्याप्रतिलेखनायां च त्रिविधाहारप्रत्याख्याने कृतेऽकृते च सायंप्रतिक्रमणसमये तयोः पानाहारादिप्रत्याख्यानं कार्यते ? किं वा चतुविधाहारेत्यादिप्रत्याख्यानमिति, प्रश्नोत्तरं येन सन्ध्याप्रतिलेखनायां त्रिविधाहारप्रत्याख्यानं कृतं स्यात्तस्य पानाहारप्रत्याख्यानं कार्यते, येन तु तत्कृतं न स्यात् तस्य चतुर्व्विधाहार प्रत्याख्यानं कार्यत इति ॥ १७९ ॥
तथा—मध्वादेः सचित्तताऽचित्तता वा, ? तत्सङ्घट्टे पर्युषितपूपिकादिसङ्घट्टे च साधुभिराहारादि गृह्यते नवा इति प्रश्नोऽत्रोत्तरं - प्रासुक
ational
For Private & Personal Use Only
पं. धनवि० १६३-१८६
॥ ३८ ॥
www.jainelibrary.org