SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ तथा-सव्येषु युगलिक्षेत्रेष युगलिनां गर्भनगर्भव्युत्क्रान्तादिभेदभिन्नानां जयन्यमध्यमोत्कृष्ट भेदाभिन्न मायुस्त्रयं किंवोत्कृष्टमेवेति प्रश्नोऽत्रोत्तरं-युगलिनामुत्कृष्टमायुर्यथास्थानं त्रिपल्योपमादि प्रतीतं, जवन्यं तु क्षुल्ल भवरूपं ज्ञेयं, यतस्विपल्योपमप्रमितमप्यायुरपवर्त्य क्षुल्लकभवरूपं कश्चिजन्तुः करोतीत्यर्थकाक्षराण्याचारावृत्त्यादौ सन्ति, परं तदपवर्तनमपर्याप्तावस्थायामेव भवति, तदूर्वं तु न भवति, | तेषां निरुपक्रमायुष्कत्वात्, मध्यमं तु युगलिनीगर्भेऽपि नवलक्षमिता गर्भजा उपद्यन्ते निष्पद्यन्ते च द्वयमेव, शेषास्तु स्वमायुरपवर्त्य गर्भस्था । | एव म्रियन्ते, तदा क्षुल्लकभवादधिकसमयादिभवने सम्भवतीति ॥ १६८ ॥ | तथा–मदनफलं विद्धमन्तमुहूर्तादनु प्रासुकं स्पातिकवा सचित्तभेति ? प्रश्नोऽत्रोत्तरं-विद्धं मदनफलमन्तर्मुहूदिनु वृद्धैरचित्ततया | व्यवह्रियमाणमस्तीति ॥ १६९ ॥ तथा-स्त्रीसचित्तयोः सङ्घट्टो निरन्तरः परम्परश्च परिहर्त्तव्यः, तत्र परम्परः किं द्वाभ्यां त्रिभिबहुभिर्वेति सङ्ख्या प्रसाद्येति, प्रश्नोत्रोत्तरंतयोः परम्परसङ्घट्ट एकेन द्वाभ्यां चान्तरितः परिहरणीयः, त्रिभिरन्तरितस्तु न लगतीति ॥ १७ ॥ | तथा--प्रवचनसारोद्धारादिषु जघन्यत एकसमये दश तीर्थकराः समुत्पद्यन्तं इत्युक्तं, सिद्धपञ्चाशिकादिषु चैकसमये चत्वारस्तीर्थकराः सिध्यन्तीत्युक्तं, तथा चैकसमय जन्मनां दशतीर्थकृतामेकसमय एव सिद्धिसम्मवे एकसमये चत्वारस्तीर्थकराः सिध्यन्तीति कथं सङ्गच्छत इति ? प्रश्नोऽत्रोत्तरं--दश तीर्थकरा एकसमये समुत्पद्यन्त इत्यत्र समयशब्देन परमनिकृष्ट कालो वा प्रस्तावो वा व्यक्ततया न ज्ञायते, चत्वारस्तीर्थकरा एकसमये सिध्यन्तीत्यत्र तु परमनिकृष्ट काल एव निश्चीयते, तेन न काऽपि विप्रति पत्तिरिति ॥ १७१॥ Jain Educat For Private & Personal Use Only O jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy