SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने २ उल्लासः ॥ ३७ ॥ Jain Education चतुर्विधाहारोपवासप्रत्याख्यानं कृतं तदा तत्प्रमाणमेत्रास्ति, तेन सायं प्रतिक्रनणार्थी सामायिककरणावसरे मयाऽमुकं प्रत्याख्यानं कृतमस्तीति स्मरणेन प्रत्याख्यानावश्यक सत्यापनं विधेयं नतु मुखवस्त्रिका प्रतिलेखनापूर्वी पुनश्चतुर्विवाहापिवासप्रत्यारूपानं कृतं विलोक्यत इति ॥ १६४ ॥ तथा - तीर्थकृतां त्रयोदशादिभवाः प्रथमसम्यक्त्व लाभापेक्षया वा प्रसिद्धमहद्ध ॥पेक्षया वा किंवा प्रकारान्तरेणेति ! प्रश्नोऽत्रोत्तरं - आवकाद्यभिप्रायेण श्री ऋषभादितीर्थकृतां त्रयोदशादिभवाः प्रथमसम्यक्त्वलामापेक्षया गण्यन्ते, न त्वन्यापेक्षयेति ॥ १६५ ॥ तथा - पण्डितपदनन्दिभवनाभावे पण्डितपदस्थस्य पुरो न्यूनाधिकपर्यायाणां सामान्ययतीना सञ्जातनन्दीना लघुपण्डितानां च कियन्ति कियन्ति क्रियाकार्याणि कृतानि शुध्यन्तीति, प्रश्नोऽत्रोत्तरं पण्डितपदनन्दिभवनाभावेऽपि वृद्धपण्डितस्य पुरः प्रतिदिनं क्रियमाणानि सर्वाण्यपि धर्मकार्याणि सव्र्वेषां कृतानि शुद्धयन्ति, शैक्षोपस्थापनाचार्य प्रतिष्ठाप्रतिमा प्रतिष्ठादिकानि तु कृत्यानि मन्त्रसापेक्षत्वान्न शुद्धयन्ति (इति) पारम्पर्ये, साम्प्रतं तु केचन वृद्धगणयो लघुपण्डितस्य पुरः क्षामणानुष्ठानादिकं न कुर्वन्ति तत्प्रवृत्तिस्तु प्रवाहप्रवृत्तेति निवारयितुमशक्या, परं शास्त्राक्षरानुसारेण लघोरपि पण्डितस्य पुरो वृद्धानामपि गणना तत्करणं नानौचितीमञ्चतीति ॥ १६६ ॥ तथा — पक्षोपवासरोहिणीपञ्चम्यादितपस्सु बहुवर्षाचरितेषु कदाचिद्विस्मृत्या महाकारणादिना वा पक्षोपवासादिदिने उपवासाभवने पक्षोपवासादि तपोमूलतो याति ? किंवा यथोक्त वर्ष मासभवनानन्तरं तत्तपःकरणादिना निष्ठां नीयत इति ? प्रश्नोऽत्रोत्तरं विस्मृत्यादिना तपोदिनाज्ञाने तत्रोपवास भवने द्वितीयदिने दण्डनिमित्तं तत्तपः कार्य, समाप्तौ च वर्द्धमानं विधेयमित्यक्षराणि श्राद्धविधौ सन्ति, महाकारणे तु तपोकरणं महत्तराद्याकारेऽन्तर्भवतीति ॥ १६७ ॥ For Private & Personal Use Only पं. धनवि० १६३-१८६ ॥ ३७ ॥ ainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy