________________
ते-श्रीपरमगुरवः इत्थं कारयन्ति तथाऽस्माभिः कार्यत इति, तत्र किं भोजकानामभोजकानां वा कार्यत इति प्रश्नोऽत्रोत्तरं-कालग्रहणद्वयशुद्धावेककालप्रतिक्रमणे सत्यवशिष्टकालमितस्वाध्याये प्रस्थापिते सत्याहारादि कतै कल्पते, नान्यथा, तदन्ववशिष्टां क्रिया सन्ध्यायां करोतीत्यात्मीयसङ्घाटकप्रवृत्तिरिति ॥ १६२ ॥
___ अथ पण्डितधनविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा सिद्धपञ्चाशिकायामनन्तकालच्युतसम्यक्त्वादिविशेषणविशिष्टा एवैकस्मिन् समयेऽष्टोत्तरं शतं सिध्यन्तीत्युक्तं, तथा च सति ऋषभादयः सर्वेऽष्टोत्तरशतमनन्तकालच्युतसम्यक्त्वादिविशेषणविशिष्टा एव अन्यथापि वा ! , विशिष्टा एव चेत्तदा ऋषभदेवस्यानन्तकालच्युतसम्यक्त्वमन्यथा वा ! अनन्तकालच्युतसम्यक्त्वं चेत्तदा ऋषभदेवस्य त्रयोदश भवा एव कथं ? पूर्वमपि सम्यक्त्वलाभात् , अन्यथापि वेति पक्षश्वेत्तदा सिद्धपश्चाशिकादिग्रन्थैरसह कथं संवादः ! आश्चर्यकृत्त्वेन चेत्तदा तदाश्चर्यं किमुत्कृष्टावगाहनया तीर्थकृत्त्वेन वा सङ्ख्यातकालपतितत्वादिना वा ! त्रिधापि वेति व्यक्त्या प्रसाद्यमिति, प्रश्नोत्रोत्तरं-एकस्मिन् समयेऽष्टोत्तरं सिध्यन्तस्सर्वेऽप्यनन्तकालच्युतसम्यक्त्वादिविशेषणविशिष्टा एव सिध्यन्तीत्यक्षराणि यदि सिद्धपश्चाशिकादिषु भवन्ति तदा बाहुबलेः षड्लक्षपूर्वप्रमाणायुषोऽपवृत्तिरिव श्रीऋषभदेवस्यापि सिद्धिराश्चर्यकृत्त्वेन समर्थनीया, एवं तदधिकारे यद्यदसम्भवि तत्सर्वमाश्चर्य एवान्तर्भावनीयं ॥ १६३॥
तथा--श्रावकेण पूर्व चतुर्विधाहारोपवासप्रत्याख्याने कृते सायं प्रतिक्रमणसमये सामायिककरणानन्तरं षडावश्यकसत्यापनस्थानाशून्याथै मुखवस्त्रिकाप्रतिलेखनापूर्व चतुर्विधाहारोपवासप्रत्याख्यानं कृतं विलोक्यते ! किंवा पूर्वकृतमेव प्रमाणमिति प्रश्नोत्रोत्तरं-यदि पर्व
Jain Educat
i
onal
For Private & Personal Use Only
Umr.jainelibrary.org