________________
सेनप्रश्ने. २ उल्लास
क्षेत्राधिक क्षेत्रवर्तिसंज्ञिमनोगतद्रव्यावबोधनिषेधपरं नतु वर्तमानसंज्ञिमनोगतद्रव्यावबोधनियमपरं, तेनावधिज्ञानिवन्मनःपर्यायज्ञान्यपि यथोक्तानेव | मनोगतभावान् जानातीति न कश्चिद्विरोध इति ॥ १५८॥
G१३०-१५० तथा-असुरकुमारादिदशनिकायानां भवनानि कया रीत्या सन्ति, प्रज्ञापनायां तु ' कहि णं भंते ! दाहिणिल्ला असुरकुमारादि देवा परिव-13.जयाव
१५५-२०० | सन्ति ! गोअमा ! जंबूदीवे दीवे इमीसे रयणप्पभाए पुढवीए असीउत्तरजोअणसतसहस्सवाहल्लाए मझे अट्ठहत्तरे जोअणसतसहस्से चोत्तीस भवणावाससतसहस्सा भवन्ती' त्येतत्सूत्रानुसारेण स्थितानां नवानामालापकाः प्रवर्तिताः, तेन तेषां कथं पृथक्त्वं स्यादिति, प्रश्नोत्रोत्तरं-तेषां विशे-| पतः स्थाननैयत्याक्षराणि शास्त्रान्तरे न दृश्यन्ते, प्रज्ञापनायां तु सामान्यत उक्तानीति ॥ १५९ ॥ __ तथा--स्थानाङ्गे चतुर्भिः कारणैर्लोके उद्योतो भवति, तथा अन्धकारमपि, अर्हनिर्वाणे लोकेऽन्धकारं भवति, तथा त्रयाणां नाशे समानमुत
कश्चिद्विशेषो वेति प्रश्नोऽत्रोत्तरं-लोकानुभावादेवाईदादीनां चतुर्णामप्युच्छेदे द्रव्यान्धकार समानं, अग्निं विना शेषत्रयोच्छेदे भावान्धकारमधिकं N| स्यादिति विशेषः स्थानाङ्गवृत्त्यनुसारेण ज्ञायत इति ॥१६॥
तथोपधानवाहकानां मध्ये कैश्विद्यथाविधि प्रतिलेखनापूर्व प्रमार्जना कृता, तदनु कश्चिदन्यस्तदवस्थः समागत्य प्रतिलेखनां करोति, काजकोद्धरणं न करोति, तस्य दिनवृद्धिर्मवति न वेति प्रश्नोत्रोत्तरं--उपधानवाहिभिः काजकोद्धरणे कृतेऽपि यद्यन्यः कश्चित्तत्रागत्योपधिप्रतिलेखनां करोति, तदा तत्काजकोद्धरणमपि कृतं विलोक्यते, अन्यथा दिनवृद्धिः स्यादिति ॥ १६१॥
तथा-प्रतिकालमेकैकं स्वाध्यायं प्रस्थाप्य कालानुष्ठानं क्रियते, तद्नु अवशिष्टाः स्वाध्यायाः कालमण्डलानि च क्रियन्ते, पौरुष्याः । | सकाले सति, नो चेचतुर्थप्रहरान्तर्विधीयत इति सामाचार्या सामान्येन प्रोक्तेऽपि कैश्चिद्गीतार्थैरकृतभोजनानां साधूनामनुष्ठानं कार्यत इति, वदन्ति च
॥३६॥
JainEducatiM
For Private
Personal Use Only
T
wiainelibrary.org